SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ स्तबकः] स्थाद्वादवाटिकाटीकासङ्कलितः १४९ शरीरभेदभ्रमो न स्यादिति चेत् ? न-धर्मिस्वरूपस्य शरीरभेदस्य धर्मिभावेनात्मस्वेन ग्रहेऽपि शरीरभेदस्वेन शरीरभेदप्रकारकात्मविशेष्यकज्ञानस्याभावात् तस्यैव शरीराभेदप्रकारकात्मविशेष्यकज्ञानप्रतिबन्धकत्वेन तदभावाच्छरीराभेदप्रकारकास्मविशेष्यकज्ञानसम्भवात् , तथा चात्मोपलब्धेरेव सद्भावेन नानुपलब्ध्याss. माऽभावनिश्चयः, यदि च चक्षुरिन्द्रियेणाऽऽत्मा नोपलभ्यत इति तदनुपलध्याऽऽस्माभावनिश्चयस्तदा वाय्वादिरपि चक्षुषा नोपलभ्यत इति चक्षुरिन्द्रियजन्योपलब्ध्यभावाद् वाय्वादेरप्यभावः प्रसज्येत; न चानुपलब्धिमात्रस्याभावसाधकत्वमपि, अन्यथा स्वगृहानिर्गतो वराकश्चार्वाको न गृहमासादयेत् , पुत्रादिभिस्तददृष्टया तदभावसिद्धेः, स्वयमपि बहिर्गतश्चार्वाकः स्वगृहस्थितान् पुत्रादीन् न पश्यतीत्यनुपलब्ध्या पुत्र-धनाद्यभावावधारणाच्छोकविकलो बहु विक्रोशेत, चार्वाकस्य स्वपुत्राद्यनुपलब्धिदशायामपि यदि पुत्रादिसत्त्वं तदा व्यभिचारेण नानुपलब्धेाभावसाधकत्वम् । अथ सन्निकृष्टेऽधिकरणे पुत्राद्यत्यन्ताभावग्रहेऽपि तद्ध्वंसस्याग्रहान्न शोक इति चेत् ? तथापि पुत्राधुपलम्भहेतुचक्षुराद्यनुपलम्भेन चक्षुरादीनामभावात् चक्षुरादिना पुत्राद्यनुपलम्भेन परावृत्तस्य तस्य मूढता स्यात् , तदिदमुक्तम् "स्वगृहानिर्गतो भूयो न तदाऽऽगन्तुमर्हति" [ ] इति; अथ चक्षुरादिसंभावनासत्त्वान तदनुपलब्ध्या तदभावसिद्धिः, संभावनाविरहविशिष्टाया एव तदनुपलब्धेस्तदभावसाधकत्वादिति चेत् ? तात्मनोऽपि संभावनासत्त्वान तदनुपलब्ध्या तदभावसिद्धिः । - भात्मनोऽनुपलब्धिमात्रेण नाभावसिद्धिरित्यत्रोदयनाचार्या इत्थं परामशन्ति, तथा च तद्वन्थः "चार्वाकस्त्वाह-किं योग्यताविशेषाग्रहेण यन्नोपलभ्यते तबास्ति, विपरीतमस्ति, न चेश्वरादयस्तथा, ततो न सन्तीत्येतदेव ज्यायः, एवमनुमानादिविलोप इति चेत् ? नेदमनिष्टम् , तथा च लोकव्यवहारोच्छेद इति चेत् ? नसंभावनामात्रेण तसिद्धेः, संवादेन च प्रामाण्याभिमानादिति, मनोच्यते "दृष्टयदृष्टयोन संदेहो, भावाभावविनिश्चयात् । अदृष्टिबाधिते हेतो, प्रत्यक्षमपि दुर्लभम् ॥ १ ॥" [ ] संभावना हि संदेह एव, तस्माच व्यवहारस्तस्मिन् सति स्यात् , स एव तु
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy