________________
शास्त्रवार्तासमुच्चयः ।
[ प्रथमः
1
निश्चितः । सोऽयमात्मा सततभावतः सर्वकालवृत्तित्वाद्, अनादिनिधनत्वादिति यावत् । परलोक्यपि परभवानुगाम्यपि । युक्तमार्गानुसारिभिरिति उपाध्यायसम्मतः पाठः, तदर्थस्तैः " उपपत्तिसहितागमानुगृहीत मतिभिः” इति कृतः, युक्तिमार्गानुसारिभिरिति श्रीहरिभद्रसूरिसम्मतः पाठः तैः "नान्यतो भिन्नजातीयमेव असद् वा सद् भवति अतिप्रसङ्गादिति तत्त्वदर्शिभिः” इत्यर्थो दर्शितः । विज्ञेयो ज्ञातव्यः, आत्मनः परलोकित्वप्रसिद्धिमित्थमुपदर्शितवन्तः श्रीमन्तो यशोविजयोपाध्यायाः - आद्य चैत्रशरीरधर्माणामव्यवहितपूर्ववर्ति चैत्रशरीरधर्मानुविधायित्वात्, युवशरीरे तथादर्शनात्, अनुगतकार्मणशरीरसिद्ध्या तज्जन्यभोगाश्रयस्य परलोकित्वसिद्धेः ; न च घटे घटजन्यत्वस्येव शरीरे शरीरजन्यत्वस्यापि न नियम इति वाच्यम्, आत्मनः क्रियावत्त्वेन चेष्टारूपतत्क्रिया नियामकशरीरत्वस्याद्य शरीर हेतु कर्मणि स्वीकारादिति ॥ ७८ ॥
१४८
परप्रश्नमुद्भाव्य समाधत्ते—
सतोऽस्य किं घटस्येव, प्रत्यक्षेण न दर्शनम् ? । अस्त्येव दर्शनं स्पष्टमहंप्रत्ययवेदनात् ॥ ७९ ॥ सतोऽस्येति । सतः भावरूपस्य सतः । अस्य भात्मनः । घटस्येव घटस्य यथा प्रत्यक्षेण दर्शनं तथा । प्रत्यक्षेण प्रत्यक्षप्रमाणेन । दर्शनं ज्ञानं, प्रत्यक्षज्ञानमिति यावत् । किं न भवति ? सतोऽपि भावभूतस्यात्मनो योग्यस्यानुपलब्ध्याऽभाव एवेत्यभिप्रायः । प्रत्यक्षेण दर्शनमस्त्येवात्मन इति नानुपलब्ध्या तस्याभाव इति समाधत्ते अस्त्येव दर्शन मिति -- - भात्मनः प्रत्यक्षमस्त्येवेत्यर्थः । तत्र हेतु: - स्पष्टमहं प्रत्यय वेदनादिति - साक्षाद हंप्रत्ययस्यानुभवसिद्धत्वादित्यर्थः, व्याप्त्यादिग्रहमन्तरेण जायमानस्याहमिति प्रत्ययस्य प्रत्यक्षत्वापलापासम्भवात्, यतोऽयमात्मा योग्यो न वा ? यदि योग्यस्तदा प्रत्यक्षेणैव तग्रहणसम्भवान्न तन्त्र व्यायादिग्रहणापेक्षा, द्वितीये आत्मत्वविशिष्टस्यायोग्यत्वे साध्या प्रसिद्ध्या तेन समं कस्यापि व्याप्तिग्रहणाभावेनानुमानासम्भवात् एतेन "तन्त्रात्मा तावत् प्रत्यक्षतो न गृह्यते" इति न्यायभाष्योक्तमप्यपास्तम्, अनुमानस्य प्रत्यक्ष पूर्वकत्वेन प्रत्यक्षाभावे तेन समं कस्यापि लिङ्गस्थ व्याप्तिग्रहणाद्यभावेनाऽऽत्मनोऽसिद्धिप्रसङ्गात् ; न चाऽऽत्मनः प्रत्यक्षत्वे तदात्मकस्य शरीरभेदस्यापि प्रत्यक्षत्वाच्छरीरभेदग्रहस्य शरीराभेदबुद्धिं प्रति प्रतिबन्धकत्वादात्मनि