________________
१५७
स्तबकः ]
स्याद्वादवाटिकाटीका सङ्कलितः
'ज्ञानं न परप्रकाश्यम्, अनवस्थापादकत्वात्, यद् यथाऽनवस्थापादकं तत् तथा न भवति, यथा गन्धो न गन्धवान्' इत्येवं परप्रकाश्यत्वबाधे 'ज्ञानं स्वप्रकाशं परप्रकाश्यत्वाभावे सति प्रकाशमानत्वाद्, यन्नैवं तन्नैवं यथा घटः ' इत्येवं परिशेषानुमानस्यैव स्वप्रकाशत्वसाधकतया तदनुमितिस्वप्रकाशताया अपयुक्त दिशाऽनुमानान्तरलभ्यतयाऽनवस्थासाम्यात् । विषयान्तरसञ्चारादिना विषयान्तरविषयक ज्ञानादिना स्वप्रकाशत्वानुमितिविशेष्यक स्वप्रकाशत्वानुमितितद्विशेष्यकस्वप्रकाशत्वानुमित्याद्यनवस्थितिधारायाः प्रतिबन्धकीभूतेनानवस्थाभङ्गो यथा स्वप्रकाशपक्षे तथा परप्रकाशेऽपीति न खप्रकाशप्रत्यक्षमप्यात्मन
इत्यत आह
आत्मनाऽऽत्मग्रहोऽप्यत्र, तथानुभवसिद्धितः ।
तस्यैव तत्स्वभावत्वान्न च युक्त्या न युज्यते ॥ ८४ ॥ आत्मनेति - इत्थं चेदं पथमवतारितं श्रीमद्भिर्यशोविजयोपाध्यायैः । श्रीमद्भिर्हरिभद्रसूरिभिस्तु " न चास्य स्वसंविदितत्वं विरुध्यत इत्येतदाहआत्मनेत्यादि” इत्येवमवतारितम् । अत्र न च युक्त्येति उपाध्यायसम्मतः पाठः, न तु युक्त्येति हरिभद्रसूरिसम्मतः पाठः, अर्थे तु न विशेषः । आत्मना ज्ञानस्वरूपेण, आत्मग्रहोऽपि ज्ञानस्वरूपग्रहणमपि, अत्र प्रकृताहंप्रत्यये, घटमहं जानामीति प्रत्यये कर्तृ-कर्म- क्रियागोचरत्वमपीति पर्यवसितार्थः, अस्य 'न च युक्त्या न युज्यते' इत्यनेनान्वयः अत्र हेतुः - तथाऽनुभवसिद्धित इति-स्वसंविदितत्वानुभवसिद्ध्येत्यर्थोऽस्योपाध्याय परिशीलितः, अहंप्रत्ययवेदनादिति तु हरिभद्रसूरिसम्मतः । कथं ज्ञानस्यैव स्वसंविदितत्वं नान्यस्येत्यपेक्षायामाह-तस्यैवेतिते - आत्मन एवेत्यर्थः, तत्स्वभावत्वात् कर्तृकर्म क्रियाऽवगाहिज्ञानजननशक्तिमत्त्वात् । आत्मन उक्तशक्तिमत्त्वं स्वकपोलकल्पितमेव न तु युक्तिसिद्धमित्यत आह-न चेति - युक्त्या न युज्यते इति न चेत्येवमन्वयः, युक्तया तर्केण, न युज्यते न साध्यते, नद्वयस्य प्रकृतार्थावधारणपरत्वमिति तर्केण साध्यत एवेत्यर्थः । उद्दण्डो नैयायिको वावदूकः स्वयुक्तिजालेन परं पराभवितुमिच्छुः कथायां प्रविशन् परस्य प्रतीक्षां 'किमिदं परो वक्ति यत्खण्डनेनाहमेनं निग्रहीष्यामि' इत्यभिप्रायेण भवानेव पूर्वं स्वमतं प्रकटयतु, अनन्तरमहं
"