________________
शास्त्रवार्तासमुच्चयः ।
[ प्रथमः
यत्तु " तमसो द्रव्यत्वे प्रौढ लोकमध्ये सर्वतो धनतरावरणे तमो न स्यात्, तेजोऽवयवेन तत्र तमोऽवयवानां प्रागनवस्थानात्, सर्वतस्तेजः संकुले वाऽन्यतोsप्यागमनासम्भवात्” इति वर्द्धमानेनोक्तम्, तदसत् - 'यद् द्रव्यं यद्द्रव्यध्वंसजन्यं तत् तदुपादानोपादेयम्' इति व्याप्तेरन्धकारद्रव्यं तेजोद्रव्यध्वंसजन्यमिति तेजउपादानाणूपादेयमिति तेजोऽवयवव्यतिरिक्ततमोऽवयवानामभावेन तेजोऽवयवेन सह तमोऽवयवानां प्रागनवस्थानेऽपि सर्वतस्तेजःसंकुले देशे देशान्तरात् तमोऽवयवानामनागमनेऽपि तत्र स्थितैरेव तेजोऽणुभिरन्धकारारम्भस्वीकारात्, एकजातीयेभ्य एवाणुभ्यः सहकारिविशेषसह कृतेभ्यः पृथिवी-जलतेजो वायूनां विजातीयानामपि पुद्गलत्वेनैकजातीयानामारम्भस्वीकारेण पार्थिवाणुभिः पार्थिवस्यैव जलाणुभिर्जलस्यैवेत्येवं नियतारम्भस्य निरासात् ।
“१४४
न
प्रतीयते च 'तमश्चलति, छाया गच्छति, इयं छाया अस्याश्छायायाः परा, इयं पुनरपरा, इदं तम एतस्माद् दूरं तस्माच्चान्तिकम्, इमे छाया-तमसी संयुक्ते; इमे पुनर्विभक्ते' इत्येवं गतिमत्त्व - परत्वा ऽपरत्व-संयोग-विभागादिभिः, गुणवत्त्व- क्रियावत्त्वलक्षणद्रव्यसाधर्म्यात् तमो द्रव्यमेव, तस्याभावत्वे गतिमत्त्व - परत्वापरत्व-संयोग-विभागादिप्रत्ययानामनुत्पत्तिः स्यात्, अभावे गुणक्रियादेरभावात् ; न च छायावतः पुरुषस्य चलने एव छाया चलतीति प्रतीतिः, छायाया द्रव्यत्वे च स्वाभाविकतद्गतेराश्रयगत्यनुविधाननियमो नोपपद्येत इति वाच्यम्, पद्मरागमणेर्द्रव्यस्य प्रभाऽपि द्रव्यमेव, अथापि पद्मरागे चलति सति तत्प्रभा चलतीति स्वाभाविक्या अपि प्रभागतेराश्रयीभूतपद्मरागगत्यनुविधानस्य दर्शनात् ; यदि च पद्मरागमणौ तिष्ठत्येव तत्समीपवर्तिकुड्याद्यावरणभङ्गे तत्प्रभा सुदूरमपि गच्छतीति तद्गतेराश्रयगतिमन्तरेणापि भावादाश्रयगत्यनुविधान नियमो नास्तीति विभाव्यते, तदैतत्तुल्यं प्रकृतेऽपि पुरुषस्य तिष्ठत एव तन्निकटतरकुड्याद्यावरणभङ्गे तच्छायाया अपि गतेरवलोकनात्, तदिदमुक्तम्
"तमः खलु चलं नीलं परापरविभागवत् ।
इतर [प्रसिद्ध] द्रव्यवैधर्म्याद् नवभ्यो भेत्तुमर्हति ॥ १ ॥ [ ] इति । निबिडं तमः, घनतरं तमः, तमोनिकरं, तमोलहरीत्यादिशब्दैर्व्यपदिश्यमानत्वात् तमो द्रव्यं किरणादिवत्, अभावरूपत्वे तमसो घनतरादिशब्दैर्व्यपदिश्यमानत्वं न स्यादित्यामनन्ति रत्नप्रभसूरयः ।
ww