________________
स्तबकः ]
स्याद्वादवाटिकाटीकासङ्कलितः
एवं निरुक्तसमुदायस्वरूपसन्निविष्टाश्च विद्यमाना एव कतिपयालोकध्वंसाः, तेषां न यत्किञ्चिदालोकापसारणत उत्पाद इत्यन्धकारोत्पादप्रतीतिर्न स्यात् ; यदि चालोका इवान्धकारा अप्यनन्ता एव न त्वेक एवान्धकार इति निरुक्तसमुदायलक्षणान्धकारस्वरूपे न यावतामालोकध्वंसानां यावतामालोकप्रागभावानां च प्रवेशो नवा कतिपयालोकध्वंसानां कतिपया लोकप्रागभावानां च प्रवेशः, किन्तु यस्यान्धकारस्य यदालोकप्रादुर्भावतो विनाशस्तदन्धकारे निरुक्तसमुदायस्वरूपे तदालोकप्रागभावो निविशते, यदालोकापगमतश्चोत्पादस्तदालोकध्वंसो निविशते, इत्येवं प्रतिनियतस्यैवैकस्या लोकस्य प्रागभावः प्रतिनियतस्यैवैकस्यालोकस्य ध्वंस स्तत्समुदाय निविष्टः, आलोक सामान्याभावस्तु प्रत्येकं तत्तदालोकविशेषाणामपि विरोधीति स एक एव निरुक्तसमुदायस्वरूपे निविशते, एवं च निरुक्तसमुदायघटकालोक विशेषध्वंसोत्पत्तिप्रयुक्त उत्पादो निरुक्तसमुदायघटकालोकविशेषप्रागभावविनाशप्रयुक्तो विनाशश्च निरुक्तसमुदायरूपेऽन्धकारे उपपद्येते इति विभाव्यते, तदाऽनन्तोक्तसमुदाय स्वरूपान्धकारतदुत्पादविनाशकल्पनाऽपेक्षयाऽतिरिक्तद्रव्यरूपान्धकारस्यैवोत्पाद- विनाशशालिनोऽनन्तस्य कल्पनमुचितम्, तथा चालोकसंसर्गाभावसमुदाय स्वरूपताऽन्धकारस्य सम्भवत्येव नेति न तस्य राशिष्विव किञ्चित्समुदायिव्यतिरेकादिप्रयुक्तविनाशादिकल्पना भद्रा, राशीनां च न समूहरूपत्वमेव, समूहविलक्षणमहदेकोत्पादाद्यनुभवाच्च, ततः स्वाभाविकावेव राशिषूत्पाद - विनाशौ न तु किञ्चित्समुदायिव्यतिरेकप्रयुक्तो विनाशः, किञ्चित्समुदाय्युत्पादप्रयुक्त उत्पादो वेति न राशीनां दृष्टान्तताऽपि सम्भवतीति ।
१४३
अपि च, तमसोsभावरूपत्वे तत्र नीलरूपवत्त्वाद्यभावादिदं नीलमित्यादिप्रतीतीनां भ्रमत्वं कल्पनीयम्, तथा योग्ये तस्मिन् नीलरूपाभावस्य योग्यत्वानेदं नीलमित्यादिसाक्षात्कारः कस्मान्न भवतीत्यतस्तत्र नेदं नीलमित्यादिसाक्षात्कारे वस्तुस्वरूपस्यादृष्टविशेषस्य वा दोषस्य वा प्रतिबन्धकत्वं कल्पनीयम्, तमोविशेष्यकतेजोऽभावत्वप्रकारकज्ञानादीनामप्रामाण्यज्ञानानास्कन्दितानां सत्त्वे नेदं नीलमित्यादिसाक्षात्कारो भवत्येवेति अप्रामाण्यग्रहाभावविशिष्टतेजोऽभावत्वप्रकारकज्ञानाद्यभावविशिष्टस्य वस्तुस्वरूपादेर्भेदं नीलमित्यादिसाक्षात्कारं प्रति प्रतिबन्धकत्वमित्यप्रामाण्यग्रहाभावविशिष्टतेजोऽभावत्वप्रकारकज्ञानादीनामुत्तेजकत्वं
कल्पनीयमित्यतिगौरवम् ।