SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ १४५ स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः तमस आलोकाभावरूपत्वे 'नात्रालोकः' इत्येतावतैव तमसोऽवगतौ 'नात्रालोकः किन्त्वन्धकारः' इति व्यवहारो न स्यादित्युक्तव्यवहारादप्यालोकाभावाद् भिन्नं तमः; न च यथा 'नात्र घटः, किन्तु तदभावः' इत्यत्र 'नात्र घटः' इत्यस्य विवरणपरं 'किन्तु तदभावः' इति वचनं तथा 'नात्रालोकः' इत्यस्य विवरणपरं 'किन्त्वन्धकार' इति वाच्यम् , विवरणपरतां विनाऽपि स्वारसिकप्रयोगदर्शनात् , अपकृष्टालोकसत्त्वेऽप्यन्धकारव्यवहारो भवति, स तमस आलोकाभावरूपत्वे न स्यात् , आलोकाभावस्य तत्राभावात् ; ननु यत एवापकृष्टालोकसत्त्वेऽन्धकारव्यवहारो भवति तत एव नालोकसामान्याभावस्तमः, किन्तृत्कृष्टालोकाभावस्तम इति चेत् ? यत्रोत्कृष्ट आलोकस्तत्रापकृष्टं तमः, उत्कृष्टेन चापकृष्टस्याभिभव इति वस्तुस्थितावालोकस्य य उत्कर्षः स तमसो. ऽपकर्षेण निरूपित इति तदुत्कर्षप्रतियोग्यपकर्षशालित्वेन तमसि द्रव्यत्वसिद्धेः, अभावेऽपकर्षासम्भवात् , यत्र चापकृष्ट आलोकस्तत्र तेनोत्कृष्टं तमो नाभिभूतमिति तद्व्यवहारो भवति, यत्र तूत्कृष्ट आलोकस्तत्र तेनापकृष्टं तमोऽभिभूतमिति तद्वयवहारो न भवतीत्येव कल्पना युक्ता; न चात्रालोकस्योत्कर्षापकर्षावालोकान्तरापेक्षयैव न तु तमोऽपेक्षयेति नालोकोत्कर्षप्रतियोग्यपकर्षशालित्वं तमसो येन द्रव्यत्वं तस्य सिद्ध्येदिति वाच्यम् , यादृशोत्कृष्टालोकसमवधाने न तमोव्यवहारस्तादृशोत्कृष्टालोकस्याप्युत्कृष्टतरालोकापेक्षयाऽपकृष्टत्वेन तदभावस्तमो न भवेत् , उत्कृष्टालोकाभावस्यैव भवता तमोरूपत्वाभ्युपगमात् , तस्योस्कृष्टालोकाभावत्वात् , यदि च सोऽप्यालोकः स्वापेक्षयाऽपकृष्टालोकापेक्षयोत्कृष्ट इति तदभावो भवत्येवोत्कृष्टालोकाभावः, तदा योऽप्यपकृष्टालोकोऽभिमतो यसत्त्वेऽपि तमोव्यवहारो भवति सोऽपि स्वापेक्षयाऽपकृष्टापकृष्टतरापकृष्टतमालोकापेक्षयोत्कृष्ट इति तदभावः स्यादेवोत्कृष्टालोकाभावः, तथा चापकृष्टालोकस्याप्युक्तदिशोत्कृष्टालोकतया तत्सत्त्वे उत्कृष्टालोकाभावस्यासत्त्वेन तमोव्यवहारो न भवेत् , अत एवालोकस्य तमोऽपेक्षयैवोत्कृष्टत्वादिकं वाच्यमिति भवत्यालोकोत्कर्षप्रतियोग्यपकर्षशालित्वेन तमसो द्रव्यत्वम् । "तेजःप्रतियोगिकाभावेनैव तमोव्यवहारः, तत्र तत्तत्तेजोज्ञानं प्रतिबन्धकम्" इति शेषानन्तवचनम् "अपकृष्टालोकसत्त्वे तदन्यतेजःप्रतियोगिकाभावेनान्धकारव्यवहारो भवति, तत्र व्यवहर्तव्यस्य तेजःप्रतियोगिकाभावरूपतमसो ज्ञानं विद्यते, तमोव्यवहारेच्छा च समस्ति, अपकृष्टालोकात्मकतेजोज्ञानं च न तमो १० शास्त्र०स०
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy