SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः । [ प्रथमः किञ्च, निरुक्ताssलोकाभावघटकानां यावतां पदार्थानामप्रतिसन्धानेऽपि तमस्त्वप्रतिसन्धानान्नोक्ताभावत्वरूपं तमस्त्वम्, किन्तु घटत्वादिवज्जातिरूपमेव तत् ; अत एव 'यावतामालोकानां मध्यादेकस्याप्यालोकस्य सत्त्वे तमोव्यवहारो न भवति तावदालोकनिष्ठ बहुत्वविशेषावच्छिन्नप्रतियोगिताकाभावस्तमः' इत्यपि निरस्तम्, तादृशबहुत्वविशेषस्याज्ञानेऽपि तमोव्यवहारस्य भावेन तदवच्छिन्नप्रतियोगिताका भावस्य तमोरूपत्वासम्भवात्, निरुक्त बहुत्वविशेषावच्छिन्नप्रतियोगिताकाभावस्य तमस्त्वम्, तादृशयावदालोकविषयकबुद्धि विशेष विषयत्वाद्यवच्छिन्नप्रतियोगिताकाभावस्य वा तमस्त्वमित्यत्र विनिगमकस्य कस्यचिदुपदर्शयितुमशक्यत्वेन विनिगमनाविरहादनन्तानां निरुक्ताभावानां तमोरूपत्वकल्पना - पेक्षयाऽतिरिक्ततमोद्रव्यकल्पनाया एव लाघवादौचित्याच्च; यदि चाखण्डाभाव एव तमः, तमस्त्वं वाऽखण्डमेवेति नोक्तदोष इति विभाव्यते, तर्हि द्रव्यरूप एव तमसि तमस्त्वमखण्डं सामान्यं वेति किमिति न कल्प्यते । १४० किञ्च, अभावे उत्कर्षा-ऽपकर्षो न भवतः, तमसि तूत्कर्षा -ऽपकर्षौ प्रतीयेते, यद्बलादन्धतमसा-ऽवतमसादिव्यवहारविशेषस्तत्र भवतीति भावत्वमेव तस्य युक्तम् ; न च महदुद्भूतानभिभूतरूपवत्तेजोऽभावकूटवत्त्वमन्धतमसम् कतिपयतदभाववत्त्वं चावतमसमित्येतावतैवोपपत्तिरिति वाच्यम्, दिने महदुद्भूतानभिभूतरूपवतां यावतां तेजसां नास्ति सम्भवस्तावत्तेजोऽभावकूटवत्त्वस्य दिवा प्रकृष्टालोकेऽपि सत्त्वेन तदानीमप्यन्धतमसव्यवहारप्रसङ्गात् ; यदि च महदुद्भूतानभिभूतरूपवत्तेजोभावत्वावच्छिन्नानुयोगिता कपर्याप्तिप्रतियोगि कूटत्वावच्छिन्नवत्त्वमेवान्धतमसमिति नैकस्यापि प्रकृष्टालोकस्य सत्त्वे निरुक्तकूटान्तर्गतस्य तदभावस्यासवत्त्वादन्धतमसापत्तिरिति विभाव्यते, तदाऽपि कतिपयतदभावरूपावतमससत्त्वेन दिवा प्रकृष्टालोकेऽवत मसव्यवहारापत्तिः स्यादेव; न च निरुक्तकूटत्वाविवक्षायां छायायामपि महदुद्भूतानभिभूतरूपवद् यावत्तेजोऽभावसत्त्वेनान्धतमसव्यवहारस्य कतिपय तदभावसत्त्वेनावतमसव्यवहारस्य च वारणायोपदर्शितान्धतमसा-ऽवत मसलक्षणयोः स्वन्यूनसङ्ख्यबाह्य लोकसंवलने सतीति विशेषणदानस्यावश्यकत्वाद् यथा छायायां निरुक्ताभावे स्वाधिकसङ्ख्य बाह्याssलोकसमवहिते स्वन्यून सङ्ख्यबाह्यालोकसंवलनाभावादतिव्याप्तिवारणं तथा दिनेsपि प्रकृष्टालोके निरुक्ताभावे स्वाधिकसय बाह्या लोकसंवलिते स्वन्यून सङ्ख्यबाह्यलोकसंवलनाभावान्नान्धतमसा ऽवतमसव्यवहारापत्तिरिति वाच्यम्,
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy