________________
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः
१४१ तद्दिने यावन्तो बाह्यालोकास्तदपेक्षया तदिनातिरिक्तानन्तदिनबाह्यालोकानामभावा एतद्दिनवृत्तयोऽधिका एवेति तेषु स्वन्यूनसङ्ख्यबाह्यालोकसंकलनमस्त्येवेति प्रकृष्टालोके दिनेऽन्धतमसा-ऽवतमसव्यवहारापत्तेरुक्तविशेषणदानेऽप्यपरिहारात् , महदुद्भूतानभिभूतरूपवद् यावत्तेजोऽभावत्वस्याप्रतिसन्धानेऽप्यन्धतमसत्वस्य, कतिपयतदभावत्वस्याप्रतिसन्धानेऽप्यवतमसत्वस्य चानुभवाच्च न महदुद्भूतानभिभूतरूपवद् यावत्तेजोऽभावस्वरूपमन्धतमसं कतिपयतदभावस्वरूपमवतमसमिति विभजनं युक्तम् । एतेन 'रूपत्वग्राहकतेजस्संवलितो रूपत्वावान्तरजातिविशेषग्राहकयावत्तेजःसंसर्गाभावोऽवतमसम् , यतोऽवतमसे रूपसामान्यप्रत्यक्षं भवति, रूपविशेषाश्च शुक्लादयः शुक्लत्वादिभिर्नोपलभ्यन्त इति, रूपत्वावान्तरजातिविशेषग्राहकतेजःसंवलितः प्रौढप्रकाशकयावत्तेजःसंसर्गाभावश्छाया, यतश्छायायां विद्यमानानां पदार्थानां शुक्लत्वादिना शुक्लादिकं प्रत्यक्षेणानुभूयते, किन्तु विशिष्टालोके यथा शुक्लादीनां प्रौढप्रकाशो भवति तथा न तत्रेति, यावदालोकाभावश्चान्धतमसम् , यतस्तत्र रूपसामान्यमपि न प्रत्यक्षगोचरचरं भवति' इति निरस्तम् , निरुक्तस्वरूपाणामवतमसादीनां चक्षुरयोग्यज्ञानघटितस्वरूपत्वेन ,चक्षुषोऽयोग्यत्वेनाचाक्षुषत्वप्रसङ्गात् , रूपत्वसामान्यमात्रग्राहकतेजसि जातिविशेष एव कश्चित् , एवं रूपत्वावान्तरग्राहकतेजसि च तदन्य एव जातिविशेषः कश्चित् , तत्तद्रूपेणैव निरुक्तावतमसादिस्वरूपे तेजःसन्निवेशाज्ज्ञानघटितत्वाभावेन चाक्षुषत्वसंभवेऽपि प्रमाणाभावेन तादृशजात्यसिद्ध्या तत्तज्ज्ञानविशेषपरिचायितजातिविशेषविशिष्टालोकनिवेशासंभवाच । - किञ्च, दीपाद्यालोकापसारणेऽन्धकारोऽयमुत्पन्नो दीपाद्यालोकागमनेऽन्धकारोऽयं विनष्ट इत्यादिप्रतीतयः समुपजायन्ते, तमस आलोकात्यन्ताभावरूपत्वे त्वत्यन्ताभावस्य नित्यत्वात् तत्रोत्पाद-विनाशयोरभावादुक्तप्रतीतीनां भ्रमत्वं स्यात् , विना च बाधकं तथाकल्पनमयुक्तम् । “आलोकसंसर्गाभावसमुदाय एवान्धकारः, तत्रालोकात्यन्ताभावरूपसमुदायिनो नित्यत्वेऽप्यालोकप्रागभावरूपसमुदायिनो विनाशित्वात् तद्वयतिरेकप्रयुक्तो निरुक्तसमुदायलक्षणान्धकारस्य विनाशः, आलोकध्वंसरूपसमुदायिन उत्पत्तिमत्वात् तदुत्पत्तिप्रयुक्ता निरुक्तसमुदायलक्षणान्धकारस्याप्युत्पत्तिरिति नोत्पाद-विनाशप्रतीत्योर्धमत्वम् , दृश्यते च राशिष्वेकापगमप्रयुक्तो विनाशः, एकस्य तद्भटकतयोत्पादत उत्पादः” इत्यभिप्रायकम् “आलोकसंसर्गाभावसमुदाय एवान्धकारः, तत्र राशिष्विव किञ्चित्