________________
स्तबकः]
स्याद्वादवाटिकाटीकासङ्कलितः
१३९
त्वानिरूपितत्वे सत्यभावत्वविषयतावच्छिन्नाभावलौकिकविषयताकप्रत्यक्षे वा घटत्वाद्यवच्छिन्नप्रकारताकज्ञानहेतुत्वेऽपि निर्वाहः, तमोविषयतायास्तमस्त्वविषयतावच्छिन्नत्वेऽभावत्वविषयतावच्छिन्नत्वनियमात् तमस्त्वस्य तेजोऽभावत्वानतिरिक्तत्वात् , उक्तकार्यकारणभावेऽभावलौकिकविषयतायामभावत्वविषयतावच्छिन्नत्वनिवेशे गौरवाच्च तमसो द्रव्यत्वस्यैव युक्तत्वादिति दिक् ।
किञ्च, नालोकप्रतियोगिकाभावमात्रं तमोव्यवहारविषयः, एकालोकवत्यप्यालोकान्तराभावसत्त्वेन तमोव्यवहारापत्तेः, नवा आलोकत्वावच्छिन्नप्रतियोगिताकाभावलक्षण आलोकसामान्याभावस्तमोव्यवहारविषयः, संयोगसम्बन्धेनालोकवत्यपि समवायसम्बन्धावच्छिन्नालोकत्वावच्छिन्नप्रतियोगिताकाभावसत्त्वात् तमोव्यवहारापत्तेः; न च संयोगसम्बन्धावच्छिन्नालोकत्वावच्छिन्नप्रतियोगिताकाभावस्तमोव्यवहारविषयः, आलोकान्तरासंयुक्ते आलोकेऽपि संयोगसम्बन्धेनाssलोकस्यासत्त्वे संयोगसम्बन्धावच्छिन्नालोकत्वावच्छिन्नप्रतियोगिताकाभावसत्त्वात् तमोव्यवहारापत्तेः, नापि आलोकान्यवृत्तित्वविशिष्टसंयोगसम्बन्धावच्छिन्नालोकत्वावच्छिन्नप्रतियोगिताकाभावस्तमोव्यवहारविषयः, आलोकभिन्नेऽन्धकारे संयोगसम्बन्धेनाऽऽलोको नास्तीत्यालोकान्यान्धकारवृत्तित्वविशिष्टसंयोगसम्बन्धावच्छिन्नालोकत्वावच्छिन्नप्रतियोगिताकाभावस्यान्धकारे सत्त्वेनान्धकारेऽन्धकार इति व्यवहारापत्तेः; न च आलोकान्यद्रव्यवृत्तित्वविशिष्टसंयोगसम्बन्धावच्छिन्नालोकत्वावच्छिन्नप्रतियोगिताकाभावस्तमोव्यवहारविषयः, अन्धकारस्यालोकान्यत्वेऽपि द्रव्यत्वाभावान्न तद्वृत्तित्वविशिष्टनिरुक्ताभावस्तत्रेति नान्धकारेऽन्धकार -इति व्यवहारापत्तिरिति वाच्यम् , त्वदात्मनो द्रव्यत्वेनालोकान्यत्वेन निरुक्ताभावस्त्वदात्मन्यस्तीति त्वदात्मन्यन्धकारव्यवहारापत्तेः; न च कदाचिदालोकसंसर्यत्वद्वृत्तित्वविशिष्टः संयोगसम्बन्धावच्छिन्नालोकत्वावच्छिन्नप्रतियोगिताकाभावस्तमोव्यवहारविषयः, स्वस्मिन् स्वप्रतियोगिकसंयोगसम्बन्धानुयोगित्वाभावेनालोक आलोकसंसर्येव न भवति, त्वदात्मा कदाचिदालोकसंसर्गी भवति सर्वमूर्तसंयोगिनस्तस्यालोकसंसर्गित्वस्यापि भावात् , किन्तु त्वद्भिन्नो न भवतीति नालोके त्वदात्मनि च तमोव्यवहारापत्तिरिति वाच्यम् , कदाऽप्यालोकसंसर्गों यत्र नास्ति तत्रापि घोरनरकादौ तमोव्यवहारस्य श्रुत्यादौ प्रतिपादनाद् निरुक्तालोकाभावस्य तत्राभावेन तमोव्यवहाराभावप्रसङ्गात् , अवतमसे किञ्चिदालोकसत्त्वेनाऽऽलोकसामान्याभावाभावाच्च तमोव्यवहारो न स्यात् ।