________________
१३८ शास्त्रवार्तासमुच्चयः।
[ प्रथमः सत्त्वेऽप्यनुमित्यापत्तेः, व्याप्तिज्ञानपरामर्शकार्यतावच्छेदकस्तद्धर्मोऽनुमितित्वं, तद्वयाप्यधर्मो विशिष्टबुद्धित्वं न भवति, तस्य विशिष्टालौकिकप्रत्यक्षशाब्दबोधादावपि सत्त्वेन तत्रानुमितित्वाभावात् , बाधनिश्चयस्तु विशिष्टबुद्धित्वावच्छिन्नं प्रत्येव प्रतिबन्धक इति तदभावो विशिष्टबुद्धित्वावच्छिन्नं प्रत्येव कारणमिति बाधनिश्चयाभावत्वं विशिष्टबुद्धित्वावच्छिन्नकार्यतानिरूपितकारणतावच्छेदकमेवेति व्याप्तिज्ञान-परामर्शकार्यतावच्छेदकीभूतानुमितित्वधर्मव्याप्यधर्मावच्छिन्नानुमितिव्यक्तिनिष्टकार्यतानिरूपितकारणतावच्छेदकयावदन्तर्गतं बाधनिश्चयाभावत्वं न भवतीति तदवच्छिन्नसत्त्वमनुमित्युत्पत्तौ नापेक्षितमिति बाधनिश्चये सत्यपि व्याप्तिज्ञान-परामर्शाभ्यामनुमित्यापत्तेः, कार्यतावच्छेदकीभूततद्धर्माश्रययत्किञ्चिद्व्यक्तिनिष्ठेत्यादिनियमे तु व्याप्तिज्ञान-परामर्शकार्यतावच्छेदकीभूतानुमितित्वाश्रययत्किञ्चिदनुमितिव्यक्तिनिष्ठविशिष्टबुद्धित्वावच्छिन्नकार्यतानिरूपितकारणतावच्छेदकयावदन्तर्गतबाधनिश्चयाभावत्वावच्छिन्नसत्त्वेऽवश्यमनुमितित्वावच्छिन्नोत्पत्तिरिति बाधधीकाले बाधधीनिश्चयाभावत्वावच्छिन्नसत्त्वाभावेनानुमित्यापत्त्यसम्भवः, कार्यतावच्छेदकीभूततद्धर्मव्याप्यव्यापकधर्मावच्छिन्नयत्किञ्चिद्वयक्तिनिष्ठकार्यतानिरूपितकारणतावच्छेदकं यावत् प्रत्येकं तत्तदवच्छिन्नसत्त्वेऽवश्यं तद्धर्मावच्छिन्नोत्पत्तिरित्युक्तौ विशेषणतासन्निकर्षकार्यतावच्छेदकीभूताभावलौकिकप्रत्यक्षत्वव्याप्यतत्तदभावलौकिकप्रत्यक्षत्वव्यापकघटत्वादिविशिष्टवैशिष्टयविषयकप्रत्यक्षत्वावच्छिन्नयत्किञ्चिदभावलौकिकप्रत्यक्षव्यक्तिनिष्ठकार्यतानिरूपितकारणतावच्छेदकघटत्वादिप्रकारकज्ञानत्वरूपविशेषणतावच्छेदकप्रकारकज्ञानत्वात्मकयावदन्तर्गतधर्मावच्छिन्नसत्त्वेऽवश्यमभावलौकिकप्रत्यक्षोत्पत्तिरिति घटत्वादिप्रकारकज्ञानतो जायमानमभावलौकिकप्रत्यक्षं घटत्वादिविशिष्टवैशिष्टयावगाह्येव भवति, निर्विकल्पाभावप्रत्यक्ष-'न' इत्याकारकप्रत्यक्षयोरभावलक्षणस्येष्टस्य सिद्धेः सम्भवेऽप्युक्तनियमो गौरवादेव नाभ्युपगन्तुं शक्यः, तथानियमोररीकारेऽपि तमसोऽभावरूपत्वेऽप्यालोकरूपप्रतियोगिज्ञानं विनाऽपि तमस्त्वेन प्रत्यक्षं सम्भवतीति यदभीष्टं तन्न सिद्ध्यति; अभावप्रत्यक्षं प्रति प्रतियोगिज्ञानत्वेन प्रतियोगिज्ञानस्य कारणत्वानभ्युपगमेऽपि तमस्त्वस्य तेजोऽभावत्वरूपत्वेन तद्रूपेण तत्प्रत्यक्षे उक्तनियमादप्यालोकत्वप्रकारकज्ञानस्यापेक्षितत्वात् , नवा घटत्वाद्यवच्छिन्नप्रकारत्वातिरिक्तप्रकारत्वानवच्छिन्नाभावत्वलौकिकविषयतावच्छिन्नाभावलौकिकविषयताकप्रत्यक्षे, घटत्वाद्यतिरिक्तधर्मावच्छिन्नप्रतियोगित्वसम्बन्धावच्छिन्नप्रकार