________________
स्तबकः]
स्याद्वादवाटिकाटीकासङ्कलितः
१३७
तमस्त्वप्रकारकं तमःप्रत्यक्षमप्यभावत्वप्रकारकालोकाभावविषयकप्रत्यक्षरूपमालोकज्ञानजन्यमालोकज्ञानं विना नैव भवेत् , भवति चालोकज्ञानं विनापि तमस्त्वप्रकारकं तमःप्रत्यक्षमिति भावत्वव्याप्यमेव तमस्त्वमतस्तमसो भावत्वमेव साधयतीति प्रतिकूलाभिप्रायमिदं देवानांप्रियस्य ।
एवं चाभावलौकिकप्रत्यक्षस्य घटत्वाद्यन्यतमत्वविशिष्टविषयकत्वनियमाद् विशेषसामग्री विना सामान्यसामग्रीमात्रात् कार्यानुत्पत्ते भावनिर्विकल्पकं, 'न' इत्याकारकप्रत्यक्षं वा, अभावलौकिकप्रत्यक्षस्य विशेषो घटत्वाद्यन्यतमत्वविशिष्टविषयकप्रत्यक्षं तत्सामग्री घटत्वादिविशेषणज्ञानरूपा तस्या अभावात् ; न चाभावलौकिकप्रत्यक्षत्वं यदि घटत्वादिविशिष्टविषयकप्रत्यक्षत्वस्य व्यापकं स्यात् तदा व्याप्यधर्मावच्छिन्नसामग्रीत्वाद् घटत्वादिविशिष्टविषयकप्रत्यक्षकारणीभूतघटत्वादिविशेषणज्ञानघटितसामग्री विशेषसामग्री भवेत् , अभावलौकिकप्रत्यक्षत्वावच्छिन्नसामग्री व्यापकधर्मावच्छिन्नसामग्रीत्वात् सामान्यधर्मावच्छिन्नसामग्री स्यात्, न चैवम् , घटत्वादिविशिष्टविषयकप्रत्यक्षत्वस्य 'अयं घटः' इत्यादिप्रत्यक्षेऽपि सत्त्वेन तत्राभावलौकिकप्रत्यक्षत्वस्याभावादिति घटत्वादिविशेषणज्ञानं विनाऽप्यभावलौकिकप्रत्यक्षस्य युक्तत्वे कथं नाभावनिर्विकल्पकं 'न' इति प्रत्यक्षं वेति वाच्यम्, कार्यतावच्छेदकीभूततद्धर्माश्रययत्किञ्चिद्वयक्तिनिष्टकार्यतानिरूपितकारणताऽवच्छेदकं यावत् प्रत्येकं तत्तदवच्छिन्नसत्त्वेऽवश्यं तद्धर्मावच्छिन्नोत्पत्तिरित्येवं नियमात् प्रकृते कार्यतावच्छेदकीभूतस्तद्धर्मोऽभावलौकिकप्रत्यक्षत्वं तदाश्रययत्किञ्चिद्वयक्तिघंटाभावत्वेन घटाभावविषयकप्रत्यक्षव्यक्तिः, तनिष्ठकार्यता विशिष्टबुद्धित्वावच्छिन्नकार्यता तन्निरूपितकारणतावच्छेदकं विशेषणविषयकबुद्धित्वावच्छिन्नकारणतावच्छेदकं विशेषणविषयकबुद्धित्वम् , एवं निरुक्तयत्किञ्चिद्वयक्तिनिष्ठकार्यता अभावलौकिकप्रत्यक्षत्वावच्छिन्नकार्यताऽपि भवति तन्निरूपितकारणतावच्छेदकं विशेषणतासन्निकर्षवादिकमपि, तत्तदवच्छिन्नसत्त्वेऽवश्यमभावलौकिकप्रत्यक्षत्वावच्छिन्नोत्पत्तिरिति नाभावनिर्विकल्पकं, नवा 'न' इत्याकारकप्रत्यक्षं च, कार्यतावच्छेदकीभूततद्धर्मव्याप्यधर्मावच्छिन्नयत्किञ्चिद्वयक्तिनिष्ठकार्यतानिरूपितकारणतावच्छेदकं यावत् प्रत्येकं तत्तदवच्छिन्नसत्त्वेऽवश्यं तद्धर्मावच्छिन्नोत्पत्तिरित्येवं नियमो यदि भवेद् न भवेदपि अभावलौकिकप्रत्यक्षे घटत्वादिविशेषणज्ञानापेक्षा, विशिष्टबुद्धित्वधर्मस्याभावलौकिकप्रत्यक्षत्वधर्माव्याप्यत्वात्, न चैवम् , उक्तनियमाभ्युपगमे व्याप्तिज्ञानपरामर्शयोः सत्त्वे बाधधी