SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १३६ शास्त्रवार्तासमुच्चयः । [प्रथमः कल्पकं चाङ्गीकरणीयम् , तथा च तमसोऽभावरूपत्वेऽपि तत्प्रत्यक्षे न प्रतियोगिज्ञानं कारणम् , अभावप्रत्यक्षत्वावच्छिन्नं प्रति प्रतियोगिज्ञानत्वेन कारणत्वस्योक्तदिशाऽपास्तत्वादिति चेत् ? न-शुद्धाभावप्रत्यक्षवारणायाभावप्रत्यक्षे प्रतियोगिज्ञानस्य कारणत्वमङ्गीकृत्य प्रकारीभूतकिञ्चिद्धर्मावच्छिन्नप्रतियोगित्वसम्बन्धावच्छिन्नप्रकारतानिरूपिताभाव. विषयताकप्रत्यक्षं प्रति विशेषणतासन्निकर्षस्य हेतुत्वाभ्युपगमेऽपि घटाभावपटाभावयोरुभयोरिन्द्रियस्य स्वसंयुक्तविशेषणतासन्निकर्षे सति घटाभावांशे प्रतियोगिविशेषितस्य पटाभावांशे च प्रतियोग्यविशेषितस्य समूहालम्बनप्रत्यक्षस्य प्रसङ्गात् , उक्तसमूहालम्बनप्रत्यक्षस्यापि घटत्वावच्छिन्नप्रतियोगित्वसम्बन्धावच्छिन्नघटनिष्ठप्रकारतानिरूपिताभावविषयताकत्वेन विशेषणतासन्निकर्षकार्यतावच्छेदकनिरुक्तधर्माकान्तत्वेन विशेषणतासन्निकर्षजन्यत्वात्, किञ्चोक्तदिशा विशेषणतासन्निकर्षा-ऽभावप्रत्यक्षयोः कार्यकारणभावे इदन्त्वादिनाऽभावप्रत्यक्षं न स्यात् , न स्याच्च 'अभावप्रतियोगी घटः' इत्यादिप्रत्यक्षम् , तयोर्विशेषणतासन्निकर्षकार्यतावच्छेदकप्रकारीभूतकिञ्चिद्धर्मावच्छिन्नप्रकारतानिरूपिताभावविषयताकप्रत्यक्षत्वरूपधर्मानाक्रान्तत्वेन विशेषणतासन्निकर्षाजन्यत्वात् , इदन्त्वादिनाऽभावप्रत्यक्षादौ कारणान्तरकल्पने चातिगौरवम् ; अथ, अभावत्वप्रकारकघटाद्यभावविषयकप्रत्यक्षे घटत्वादिना घटादिज्ञानस्य हेतुत्वम् , एवं च पटाभावत्वेन भूतले न घटाभावादिज्ञानम् , यतस्तस्याभावत्वप्रकारकघटाभावविषयकप्रत्यक्षत्वस्यावश्यम्भावेन तदवच्छिन्नकारणस्य घटज्ञानस्य तत्राभावात् , किन्तु पटवति भूतले पटाभावत्वेन पटाभावस्यारोपस्याऽऽरोपरूपमेव तत् , तस्याभावत्वप्रकारकपटाभावविषयकाऽऽरोपात्मकप्रत्यक्षरूपस्य तस्य कारणीभूतपटज्ञानसद्भावात् , तथा चेदनत्वेन तमःप्रत्यक्षस्याभावत्वप्रकारकाऽऽलोकाभावविषयकप्रत्यक्षत्वाभावादालोकज्ञानं न कारणमिति तदन्तरेण तस्य संभवः स्यादिति चेत् ? न-घटवद् भूतलमितिज्ञानानन्तरम् 'अभाववद् भूतलम्' इति प्रत्यक्षप्रसङ्गात् , तस्य प्रत्यक्षस्याभावत्वेनाभावसामान्यावगाहिनो घटाभावविषकत्वाऽभावत्वप्रकारकत्वयोः सत्त्वेन घटत्वेन घटज्ञानकार्यत्वात् , अभावस्य भूतले यदसंसर्गज्ञानं तद्रूपप्रतिबन्धकस्याभावेनासंसर्गाग्रहरूपापादकस्य सत्त्वात् ; किञ्च भवतु येन केनापि प्रकारेण घटाभावज्ञाने घटज्ञानस्य कारणत्वं तावताऽप्यभावज्ञाने प्रतियोगिज्ञानापेक्षा सिद्ध्यत्येव, तथा च तमस्त्वं यद्यालोकाभावत्वरूपं स्यात् , तदा
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy