________________
स्तबकः]
स्याद्वादवाटिकाटीकासङ्कलितः शक्यते, विशेषणतासन्निकर्षस्य प्रतियोगित्वसम्बन्धावच्छिन्नप्रकारतानिरूपिताभावविषयताकप्रत्यक्षत्वावच्छिन्नं प्रत्येव कारणत्वेन शुद्धाभावप्रत्यक्षस्य निरुक्तकार्यतावच्छेदकानाक्रान्ततया विशेषणतासन्निकर्षाजन्यत्वात् , इत्थं कल्पनायां कोटिप्रतियोगिज्ञानहेतुत्वाकल्पनलाघवमपीति; न च 'अभावो न घटीयः' इति प्रत्यक्षे व्यभिचारः, उक्तप्रत्यक्षस्यापि न घटीय इत्यंशे प्रतियोगित्वसम्बन्धावच्छिन्न प्रतियोगितासम्बन्धावच्छिन्नप्रकरतानिरूपिताभावविषयताकप्रत्यक्षत्वरूपविशेषणतासन्निकर्षनिष्ठकारणतानिरूपितकार्यतावच्छेदकधर्माकान्तत्वेन विशेषणतासन्निकांदुत्पत्तिसंभवात् , यदि च प्रतियोगित्वसम्बन्धावच्छिन्नप्रकारतानिरूपिताभावविषयताकप्रत्यक्षस्य विशेषणतासन्निकर्षादुत्पत्त्यभ्युपगमे प्रतियोगितामात्रेण द्रव्यं नास्ति मेयं नास्तीत्यादिप्रत्यक्षस्यापत्तिः, तस्यापि प्रतियोगित्वसम्बन्धावच्छिनप्रतियोगित्वसम्बन्धावच्छिन्नद्रव्यनिष्ठप्रकारतानिरूपिताभावनिष्ठविषयताकत्वस्य निरुक्तसम्बन्धावच्छिन्नमेयादिनिष्ठप्रकारतानिरूपिताभावनिष्ठविषयताकत्वस्य भानेन विशेषणतासन्निकर्षजन्यत्वसम्भवात् , द्रव्यमेयादिरूपप्रतियोगिज्ञानं विनैव तस्यापादनीयत्वेनेष्टापत्तेरसम्भवादिति विभाव्यते, तदा प्रकारीभूतकिञ्चिद्धर्मावच्छिन्नप्रतियोगित्वसम्बन्धावच्छिन्नप्रकारतानिरूपिताभावविषयताकप्रत्यक्षं प्रति विशेषणतासन्निकर्षस्य हेतुत्वं प्रतियोगितामात्रेणेत्यत्र मात्रपदस्य द्रव्यत्वाद्यवच्छिन्न प्रतियोगिताव्यवच्छेदकतया प्रतियोगितामात्रेण द्रव्यं नास्तीत्यादे. निरुक्तकार्यतावच्छेदकानाक्रान्ततया विशेषणतासन्निकर्षाजन्यत्वेन न विशेषणतासन्निकर्षतस्तदापत्तिसम्भवः, द्रव्यत्वावच्छिन्नप्रतियोगितासम्बन्धेन द्रव्यं नास्ति मेयत्वाद्यवच्छिन्नप्रतियोगितासम्बन्धेन मेयं नास्तीत्यादिप्रत्यक्षं तु द्रव्यत्वादेः प्रकारत्वे सत्येव स्यात् , तथा च तस्य द्रव्यत्वादिप्रकारकज्ञानकार्यतावच्छेदकद्रव्य. त्वाद्यवच्छिन्नप्रकारतानिरूपितविषयताकप्रत्यक्षत्वधर्माकान्तत्वेन तं प्रति द्रव्यत्वादिप्रकारकज्ञानस्य कारणत्वेन द्रव्यत्वादिना द्रव्यादिज्ञानं विना नापत्तिसंभव इति, विशेषणतासन्निकर्षाजायमाने च प्रकारीभूतकिञ्चिद्धर्मावच्छिन्नप्रतियोगित्वसम्बन्धावच्छिन्नप्रकारतानिरूपिताभावविषयताकप्रत्यक्षेऽभावेऽभावत्वमपि भासत एव, अभावस्याविषयीकरणे अभाव इति नेति नास्तीत्याकारोल्लेख एव न स्यात् , अभावत्वं चाखण्डोपाधिरेवेति तन्निष्ठनिरवच्छिन्नप्रकारताकत्वमेवोक्तप्रत्यक्षे. निरवच्छिन्नतनिष्टप्रकारताकबुद्धौ निरवच्छिन्नतन्निष्ठविषयताकज्ञानं कारणमिति अभावत्वनिष्ठनिरवच्छिन्नप्रकारताकनिरुक्ताभावप्रत्यक्षकारणतयाऽभावत्वं निर्वि