SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः। [प्रथमः त्वेनाभावविषयताकत्वघटितनिरुक्तकार्यतावच्छेदकधर्मानाक्रान्ततया यावत्प्रतियोगिज्ञानानपेक्षणात् ; न चाभावत्वस्य भावभिन्नत्वरूपस्य समवाय-स्वसमवायिसमवेतत्वान्यतरसम्बन्धावच्छिन्नप्रतियोगिताकसत्ताभावरूपस्य वा सखण्डोपाधिरूपत्वेन किञ्चिद्धर्मरूपेणैव भानं न स्वरूपत इति तन्निर्विकल्पकं न संभवत्येवेति वाच्यम् , अभावत्वस्याखण्डत्वात् , अन्यथाऽभावविशिष्टबुद्धावपितनिर्विकल्पकायोगात् , न चेष्टापत्तिः, विशिष्टबुद्धौ विशेषणज्ञानस्य कारणत्वेन अभावत्वस्य विशेषणस्य निर्विकल्पकज्ञानं विनाऽभावविशिष्टबुद्ध्यनापत्तेः; किञ्च घट-पटौ' न इति । प्रत्यक्षनिरूपिताभावविषयतायाः प्रतियोगित्वसम्बन्धावच्छिन्नघटत्वपर्याप्तावच्छेदकतानिरूपितप्रकारत्वान्यघटत्व-पटत्व-द्वित्वैतत्रितयपर्याप्तावच्छेदकतानिरूपितप्रकारतानिरूपितत्वेन घटत्वादिप्रत्येकपर्याप्तावच्छेदकतानिरूपितप्रतियोगित्वसम्बन्धावच्छिन्नप्रकारताभिन्नप्रतियोगित्वसम्बन्धावच्छिन्नप्रकारत्वानिरूपितत्वाभावाद् घटादिप्रतियोगिज्ञानकार्यतावच्छेदकानाक्रान्ततादृशप्रत्यक्षस्य घटादिप्रतियोगिज्ञानविरहेऽप्यापत्तिः,घटत्वाद्यवच्छिन्नप्रकारत्वस्य घटत्वादिनिष्ठावच्छेदकतानिरूपितप्रकारतात्वेनैव प्रवेशे घटत्व-पटत्व-द्वित्वैतत्रितयावच्छिन्नप्रकारताया घटत्वनिष्ठावच्छेदकतानिरूपितत्वेन तद्भिन्नप्रकारत्वानिरूपिताभावविषयताकप्रत्यक्षत्वलक्षणकार्यतावच्छेदकाक्रान्तत्वेन घटादिज्ञानजन्यतया घटादिज्ञानं विना तदापत्त्यसम्भवेऽपि नीलघटाद्यभावप्रत्यक्षस्यापि केवलघटादिज्ञानकार्यतावच्छेदकाक्रान्तत्वेन तस्य केवल घटादिज्ञानतोऽभावेनान्वयव्यभिचारस्य वारणाय घटत्वादिपर्यासावच्छेदकतानिरूपितप्रकारत्वान्यप्रकारतानिरूपिताभावविषयताकप्रत्यक्षत्वस्यैव घटादिज्ञानकार्यतावच्छेदकत्वस्य स्वीकरणीयतयोक्तदोषोद्धारासम्भवात्, तस्मादभावप्रत्यक्षे प्रतियोगिज्ञानस्योक्तदिशा कार्यकारणभावो न युक्तः, किन्तु घटत्वाद्यवच्छिन्नप्रकारतानिरूपितविषयताकप्रत्यक्षत्वावच्छिन्नं प्रति घटत्वादिनिष्ठप्रकारताकज्ञानत्वावच्छिन्नं कारणमित्येव कार्यकारणभावो युक्तः, यथा घटवद् भूतलमिति प्रत्यक्षं घटत्वावच्छिन्नप्रकारानिरूपितविषयताकप्रत्यक्षत्वरूपकार्यतावच्छेदकाक्रान्तत्वाद् घटत्वप्रकारकज्ञाने सत्येव भवति तथा घटो नेत्येवं प्रतियोगिविशेषिता. भावप्रत्यक्षमपि निरुक्तकार्यतावच्छेदकधर्माकान्तत्वाद् घटत्वप्रकारकज्ञाने सत्येव भवतीत्येतावतैव प्रतियोगिज्ञानं विना प्रतियोगिविशेषिताभावप्रत्यक्षापत्यसम्भवात् शुद्धाभावप्रत्यक्षं तु घटत्वाद्यवच्छिन्नप्रकारतानिरूपितविषयताकप्रत्यक्षत्वरूपकार्यतावच्छेदकानाक्रान्तमपि विशेषणतासन्निकर्षतासन्निकर्षमात्रेण नापादयितुं
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy