SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः १३३ निश्चयत्वेन स्यादेव, तथा च तद्बुद्धयात्मकबाधबुद्धिकाले संयोगसम्बन्धावच्छिन्नप्रतियोगितासम्बन्धेन घटस्याभावे वैशिष्टयभानप्रतिबन्धात् संयोगेन घटाभावस्य 'न' इत्याकारकप्रत्यक्षापत्तिरिति वाच्यम् , संयोगादिसम्बन्धावच्छिन्नप्रतियोगितासम्बन्धेनाभावो न घटीय इति बाधधीकाले संयोगादिसम्बन्धावच्छिन्नप्रतियोगितासम्बन्धेनैवाभावे घटवैशिष्टयभानप्रतिबन्धो न तु प्रतियोगितासम्बन्धावच्छिन्नप्रतियोगितासम्बन्धेन, तं प्रति तस्या बाधधीत्वाभावादिति प्रतियोगितासम्बन्धावच्छिन्नप्रतियोगितासम्बन्धेन घटस्य प्रकारतयाऽभावे भानसंभवेन प्रतियोगिनो घटस्योपस्थितस्याभावे वैशिष्टयविषयकत्वेन घटो नेत्याकारकस्य प्रतियोगिविशेषिताभावप्रत्यक्षस्यैवोत्पादात् , घटत्वाद्यवच्छिन्नप्रकारत्वान्यप्रकारत्वानिरूपिताभावविषयताकप्रत्यक्षे घटादिधियो हेतुत्वस्याऽऽवश्यकत्वाञ्च, घटज्ञानं विनाऽपि पटाभावत्वादिना घटाभावावगाहिप्रत्यक्षस्योत्पादेन व्यभिचाराद् घटनिष्ठप्रतियोगिताकाभावप्रत्यक्षं प्रति घटज्ञानत्वेन कारणत्वस्य वक्तुमशक्यत्वात् , पटाभावत्वादिना घटाभावप्रत्यक्षस्य तु घटत्वावच्छिन्नप्रकारत्वान्यपटत्वावच्छिन्नप्रकारतानिरूपिताभावविषयताकत्वेन निरुक्तकार्यतावच्छेदकधर्मानाक्रान्ततया घटज्ञानं विना भावेऽपि न व्यभिचारः, तस्य पटत्वावच्छिन्नप्रकारत्वान्यप्रकारत्वानिरूपिताभावविषयताकप्रत्यक्षत्वेन पटज्ञानकार्यत्वात् , इत्थं चाभावत्वाभाव. योनिर्विकल्पकं प्रत्यक्षं यथा घटत्वावच्छिन्नप्रकारत्वान्यप्रकारत्वानिरूपिताभावविषयताकम् , तथा पटत्वावच्छिन्नप्रकारकान्यप्रकारतानिरूपिताभावविषयताकम् , एवं मठत्वावच्छिन्नप्रकारत्वान्यप्रकारत्वानिरूपिताभावविषयताकमपीत्येवं घटपटादिसकलप्रतियोगिज्ञानकार्यतावच्छेदकाक्रान्ततया तस्य यत्किञ्चित्प्रतियोगिज्ञानेऽसम्भवात् , प्रत्येकं यावत्प्रतियोगिज्ञानस्य च चर्मचक्षुषामभावेन कारणाभावादेवासम्भवात् , अभावत्वांशे निर्विकल्पकमभावांशे यत्किञ्चिद्धटादिवैशिष्टयावगाहिप्रत्यक्षं तु यत्किञ्चिद्घटादिलक्षणप्रतियोगिज्ञानकार्यतावच्छेदकाक्रान्तत्वाद् घटाद्यात्मकप्रतियोगिज्ञानसाध्यमेवेति तस्य भवत्येव घटादिज्ञानतो भावः, इदन्त्वेन तमःप्रत्यक्षमपि अभावांशे निर्विकल्पकवत् प्रतियोगित्वसम्बन्धावच्छिन्नघटत्वाद्यवच्छिन्नप्रकारताभिन्नप्रतियोगित्वसम्बन्धावच्छिन्नप्रकारतानिरूपिताभावविषयताकप्रत्यक्षत्वरूपकार्यतावच्छेदकधर्माक्रान्तमिति प्रत्येकं यावद्रटादिज्ञानजन्यमिति यावद्धटादिज्ञानाभावे तन्नोपपद्यते इति वाच्यम् , उक्तरीत्याऽभावाऽभावत्वयोनिर्विकल्पकासम्भवेऽपि केवलाभावत्वस्य निर्विकल्पकापत्तेः; तत्राभावस्याविषय
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy