________________
१३२ शास्त्रवार्तासमुच्चयः ।
[प्रथमः इत्यादिबाधधीदशायां बाधेन प्रतिबन्धादभावांशे प्रतियोगितासम्बन्धेन घटस्य भानासम्भवात् 'न' इत्येवं प्रतियोग्यविशेषिताभावप्रत्यक्षापत्तिरिति वाच्यम् , यतः 'अभावो न घटीयः' इति बाधज्ञानमभावत्वावच्छेदेनाभावे प्रतियोगित्वसम्बन्धावच्छिन्नघटनिष्ठप्रतियोगिताकाभावमवगाहते? अभावत्वसामानाधिकरण्येन वा?, आये प्रतियोगित्वसम्बन्धावच्छिन्नप्रतियोगिताकघटाभावस्याप्यभावतया प्रतियोगितासम्बन्धेन घटवति तत्र घटाभावावगाहनेनाहार्यत्वं स्यात् , तथा च तस्याभावविशेष्यकप्रतियोगित्वसम्बन्धेन घटप्रकारकबुद्धिं प्रति न प्रतिबन्धकत्वम् , तेन सम्बन्धेन तद्धर्मिकतद्वत्ताबुद्धिं प्रति अनाहार्याप्रामाण्यज्ञानानास्कन्दिततद्धर्मिकतत्सम्बन्धावच्छिन्नप्रतियोगिताकतदभावनिश्चयस्यैव प्रतिबन्धकत्वात्, द्वितीये अवच्छेदकावच्छेदेन तद्वत्ताबुद्धिं प्रत्येव सामानाधिकरण्येन तदभाववत्तानिश्चयस्य प्रतिबन्धकत्वं न तु सामानाधिकरण्येन तद्वत्ताबुद्धिं प्रति, तथा च अभावत्वसामानाधिकरण्येन प्रतियोगित्वसम्बन्धावच्छिन्नघटनिष्ठप्रतियोगिताकाभावप्रकारिकाया 'अभावो न घटीयः' इति बाधधियोऽभावत्वसामानाधिकरण्येन घटबुद्धिं प्रत्यप्रतिबन्धकत्वात् तद्दशायामपि प्रतियोगिनो घटस्योपस्थितस्याभावे वैशिष्टयभानसम्भवेन घटो नेत्येव प्रत्यक्षं भवेत् , न तु घटरूपप्रतियोग्यविशेषितस्याभावस्य नेत्याकारकप्रत्यक्षम् ; न च सामान्यतोऽभावो न घटीय इति धियो न घटीय इत्यंशे प्रतियोगितासम्बन्धावच्छिन्नप्रतियोगितासम्बन्धेन नजाभावे घटवैशिष्ट्यविषयकत्वेन न तदंशे प्रतियोगितासामान्येन घटवैशिष्टय विषयकत्वम् , किन्त्वभावपदार्थेऽभावसामान्ये प्रतियोगितासामान्येन घटनिष्ठप्रतियोगिताकाभाववैशिष्टयविषयकत्वम् , एवं च तस्या यया कयाचिदपि प्रतियोगितया घटप्रकारकाभावविशेष्यकधीविरोधित्वमित्येकस्यामेव तस्यां बुद्धौ परस्परविरोधिद्वयविषयकत्वेनाहार्यत्वमित्यनाहार्यत्वाभावादप्रतिबन्धकत्वेन प्रतियोगितासामान्येन घटबाधग्रहरूपत्वाभावेऽपि ‘अभावः संयोगादिसम्बन्धावच्छिन्नप्रतियोगितया न घटीयः' इति धीनजाभावे संयोगसम्बन्धावच्छिन्नप्रतियोगित्वसम्बन्धावच्छिन्नप्रतियोगितासम्बन्धेनैव घटस्य वैशिष्टयमवगाहते, न तु संयोगसम्बन्धावच्छिन्नप्रतियोगितासम्बन्धेनाभावे घटस्य वैशिष्ट्यमित्यनाहार्यरूपायास्तस्याः संयोगसम्बन्धावच्छिन्नप्रतियोगितासम्बन्धेन घटप्रकारकाभावविशेष्यकबुद्धिविरोधित्वं संयोगसम्बन्धावच्छिन्नप्रतियोगित्वसम्बन्धावच्छिन्नघटनिष्ठप्रतियोगिताकाभावत्वावच्छिन्नस्वरूपसम्बन्धावच्छिन्नप्रकारतानिरूपिताभावत्वावच्छिन्नविशेष्यताक