________________
१३१
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः मिदं दृश्यते' इत्यादिप्रत्ययात् , शून्यत्वस्याभावत्वेन रूपेणाभाववत्त्वरूपत्वात् , इत्थमेवाभावत्वस्य भावभेदस्य पिशाचादिभेदवद् योग्यस्य घटो नास्तीत्यादौ स्वरूपतो भानमपि प्राचां सम्भवदुक्तिकम् , अभावप्रत्यक्षस्य प्रतियोग्यविशेषिताभावविषयकस्याभाव इत्येवमुल्लेखो भवति, 'न' इत्येवमुल्लेखस्तु न भवति, तत्र नजुल्लेखस्य प्रतियोगिवाचकपदनियतत्वं प्रयोजकमिति प्रतियोगिवाचकपदसमवधाने सत्येव नअल्लेखो नान्यथेति वाच्यम् , अन्धकारे विद्यमाने वयभावादौ यथा शून्यमिदमिति प्रत्ययो भवति तथा हृदादावपि विद्यमाने वह्नयभावादी शून्यमिदमिति प्रत्ययापत्तेः; अभावप्रत्यक्षे योग्यधर्मावच्छिन्नज्ञानत्वेन हेतुत्वान्नायं दोष इति मन्दम् , योग्यधर्माणामननुगतत्वात् , प्रत्येकं योग्यतत्तद्धर्मावच्छिन्नज्ञानत्वेनाभावत्वप्रत्यक्षं प्रति कारणत्वस्य व्यभिचारेणासम्भवात् , घटत्व-पटत्वाद्यन्यतमत्वेन योग्यधर्माननुगमय्य घटत्व पटत्वाद्यन्यतमधर्मावच्छिन्नज्ञानत्वेन कारणत्वस्य व्यभिचाराभावेन सम्भवेऽपि अन्य तमत्वस्य भेदकूटावच्छिन्नप्रतियोगिताकभेदरूपस्य दुर्जेयकूटत्वघटितत्वेन दुर्जेय. तया तद्रूपेण कारणत्वस्यापि दुर्जेयत्वात् , कूटत्वस्यैकविशिष्टापररूपत्वेन तत्र विशेष्यविशेषणभावे विनिगमनाविरहेण विशिष्टस्वरूपस्यानेकत्वप्रसक्त्या तद्धटितस्य निरुक्तकारणतावच्छेदकधर्मस्यानेकत्वेनावच्छेदकभेदेनावच्छेद्यकारणताभेदस्यानन्तकार्यकारणभावप्रसक्त्या गौरवात् , पिशाचत्वाद्ययोग्यधर्मावच्छिन्नस्य ग्रहेऽपि पिशाचो नायमित्येवं पिशाचाद्यतीन्द्रियपदार्थभेदात्मकाभावप्रत्यक्षस्योत्पादेन व्यभिचारेण योग्यधर्मावच्छिन्नज्ञानत्वेन हेतुत्वासम्भवाच । - अथ प्रत्यक्षमात्रे इन्द्रियसन्निकर्षस्य कारणत्वेनेन्द्रियसन्निकर्ष विना नाभाव. प्रत्यक्षम् , तथा च 'न' इत्याकारकाभावप्रत्यक्षवारणायेन्द्रियसम्बद्ध विशेषणताया एव प्रतियोगिविशेषिताभावप्रत्यक्षहेतुत्वम् , न चेन्द्रियस्य चक्षुस्त्वगादिभेदभिन्नत्वेन तदनुगमकस्य शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञानकारणमनःसंयोगाश्रयत्वरूपस्येन्द्रियत्वस्य गुरुतरस्य प्रवेशो न सम्भवतीति सामान्यतस्तथा कार्यकारणभावासम्भवात् तत्तदिन्द्रिययोग्यप्रतियोगिविशेषिताभावप्रत्यक्षं प्रति तत्तदिन्द्रियविशेषणताया हेतुत्वे गौरवात् पृथक् प्रतियोगिधीहेतुतैव युक्ता; न च प्रतियोगिविशेषिताभावप्रत्यक्ष प्रति प्रतियोगिज्ञानस्य कारणत्वेऽपि प्रतियोगिज्ञानसत्त्वेऽपीन्द्रियसन्निर्षबलान्नेत्याकारकप्रत्यक्षापत्तिरिति वाच्यम् , उपस्थितस्य प्रतियोगिनोऽभावे वैशिष्टयभाने बाधकाभावात् , न च 'अभावो न घटीयः'