________________
१३० शास्त्रवार्तासमुच्चयः ।
[प्रथमः रिति विशिष्य कार्यकारणभावोऽप्यभावज्ञान-प्रतियोगिज्ञानयोर्न सम्भवति, अत्यन्ताभावस्य प्रतियोगि-तत्प्रागभाव-तद्धसैतन्त्रितयप्रतियोगिकत्वमित्यभ्युपगन्तॄणां प्राचीननैयायिकानां मते घटात्यन्ताभावस्य घट-तत्प्रागभाव-तद्वंसप्रतियोगिकत्वेऽपि तत्रितयाग्रहे घटात्मकप्रतियोगिमात्रग्रहेऽपि घटात्यन्ताभावलौकिकप्रत्यक्षोदयात्, समनियतानामभावानामैक्यमित्यभ्युपगच्छतां नव्यनैयायिकानां मते समनियतैकत्व-परिणामाद्यभावानामैक्यमिति तत्रैकत्वाभावस्य परिमाणादिरपि प्रतियोगीति प्रतियोगिनः परिमाणादेरग्रहेऽप्येकत्वमात्रग्रहालौकिकप्रत्यक्षोदयाच्च; अथ तदभावलौकिकप्रत्यक्षे तदभावयत्किञ्चित्प्रतियोगिज्ञानत्वेन हेतुत्वान्नोक्त; व्यभिचार इति चेत् ? न-इत्थं विशिष्य हेतुत्वे मानाभावात् , वह्नयादिज्ञानशून्यस्यापि पुंसः सन्निकृष्टे हृदादावन्तत इदन्त्वादिनाऽपि वह्नयाद्यविशेषिततदभावलौकिकप्रत्यक्षस्येष्टत्वात् ; नन्वत्र वह्निर्नास्तीत्येवं वह्नित्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन वह्निविशिष्टाभावलौकिकप्रत्यक्षं वह्निज्ञानं विना न भवतीति वह्नयात्मकप्रतियोगिविशेषिताभावप्रत्यक्षं प्रति वह्नयात्मकप्रतियोगिज्ञानं कारणम् , एवमन्यस्याप्यभावस्य प्रतियोगिविशेषितस्य प्रत्यक्षं प्रति तत्प्रतियोगिज्ञानं कारणमिति चेत् ? न-विशिष्टवैशिष्टयावगाहिप्रत्यक्षं प्रति विशेषणतावच्छेदकप्रकारकनिश्चयस्य कारणतया तत एव वह्निर्नास्तीति प्रत्यक्षस्य वह्नित्वविशिष्टवैशिष्टयावगाहिनो विशेषणतावच्छेदकवह्नित्वप्रकारकज्ञानसाध्यत्वसम्भवात् स्वातन्त्रयेणाभावलौकिकप्रत्यक्षं प्रति प्रतियोगितावच्छेदकविशिष्टप्रतियोगिज्ञानत्वेन कारणत्वाकल्पनात् ; तमसस्तेजोऽभावरूपत्वेऽपि तेजोविशेषिताभावरूपत्वेन तत्प्रत्यक्षस्य तेजोज्ञानं विनाऽसम्भवेऽपि तदविशेषितरूपेण तत्प्रत्यक्षस्य तेजोज्ञानं विनाऽप्यभ्युपगमे दोषाभावादिति चेत् ? न प्रतियोगिज्ञानस्याभावप्रत्यक्षं प्रति कारणत्वाभावे प्रतियोगिज्ञानं विना प्रतियोगिविशेषिताभावज्ञानस्य प्रतियोगितावच्छेदकविशिष्टप्रतियोगिवैशिष्टयावगाहिनो विशिष्टवैशिष्टयावगाहिज्ञानकारणविशेषणतावच्छेदकप्रकारकज्ञानाभावादनुत्पादेऽपि प्रतियोग्यविशेषिताभावप्रत्यक्षं 'न' इत्याकारकमापद्येत; न चाभावज्ञानमभावत्वप्रकारकमिति विशिष्टज्ञानरूपस्य तस्य विशेषणीभूताभावत्वज्ञानसाध्यत्वेनाभावस्येदन्त्वेनापि रूपेण पूर्वमग्रहादापादकाभावादेव न 'न' इत्याकारकस्याभावप्रत्यक्षस्यापत्तिसम्भव इति वाच्यम् , प्रथममभावाऽभावत्वयोनिर्विकल्पके सति तदात्मकविशेषणज्ञानरूपकारणबलादभाव इत्याकारकप्रत्यक्षस्यापत्तेर्दुरित्वात् ; न चाभावत्वमात्रेणाभावप्रत्यक्षस्येष्टत्वम् , 'शून्य