________________
१२९
स्तबकः]
स्याद्वादवाटिकाटीकासङ्कलितः त्वेन द्रव्यचाक्षुषत्वावच्छिन्नं प्रति हेतुत्वौचित्यात् ; किञ्च चक्षुस्संयोगावच्छेदकावच्छिन्नालोकसंयोगस्य द्रव्यचाक्षुषं प्रति हेतुत्वे कारणशरीराविष्टस्य चक्षुषः कारणत्वावच्छेदकत्वेनान्यथासिद्धत्वादहेतुत्वं स्यात् ; अपि च चक्षुस्संयोगावच्छेदकावच्छिन्नालोकसंयोगत्वापेक्षयाऽऽलोकत्वस्य लघुत्वेन तस्यैव द्रव्यचाक्षुषत्वावच्छिन्नजन्यतानिरूपितजनकतावच्छेदकत्वं कल्पयितुमुचितम् , चक्षुस्संयोगाव च्छिन्नसंयोगस्य कारणतावच्छेदकसम्बन्धत्वकल्पनया चात्राप्यतिप्रसङ्गवारणं सम्भवति, अवच्छेदकधर्मगौरवापेक्षयाऽवच्छेदकसम्बन्धगौरवस्याभ्यर्हितत्वात् , न च चक्षुस्संयोगावच्छिन्नसंयोगसम्बन्धेनाऽऽलोकस्यालोकवृत्तित्वमित्यालोकात्मकद्रव्यचाक्षुषस्य निरुक्तसम्बधेनालोकमन्तरेणापि भावाद् व्यभिचारेण न सामान्यतो द्रव्यचाक्षुषत्वावच्छिन्नं प्रति निरुक्तसम्बन्धेनाऽऽलोकस्य हेतुत्वम् , किन्तु सुवर्णभिन्नं यत् तेजस्तद्भिन्नद्रव्यचाक्षुषं प्रति चक्षुस्संयोगावच्छिन्नसंयोगसम्बन्धेनालोकस्य हेतुत्वं वाच्यम् , सामान्यतस्तेजोभिन्नद्रव्यचाक्षुषं प्रति तथा. हेतुत्वे सुवर्णस्य तेजस्त्वेन तत्प्रत्यक्षस्य निरुक्तकार्यतावच्छेदकधर्मानाक्रान्तत्वादालोकं विनाऽपि तत्प्रत्यक्षमापद्येत, अतः सुवर्णभिन्नत्वं तेजसो विशेषणम् , तथा च लाघवात् तमोऽन्यद्रव्यचाक्षुषं प्रति तमसः प्रतिबन्धकत्वमेव न्याय्यम् , महदुद्भूतानभिभूतरूपवदालोकत्वापेक्षया तमोऽभावत्वेन हेतुत्वे लाघवाच्च, एवं च तमसो द्रव्यत्वेऽपि तच्चाक्षुषप्रत्यक्षस्य निरुक्तकार्यतावच्छेदकधर्मानाक्रान्ततया तमोऽभावाभावेऽपि तत् स्यादेवेति ।
किञ्चान्वयव्यतिरेकाभ्यामभावज्ञाने प्रतियोगितावच्छेदकविशिष्टप्रतियोगिज्ञानस्यान्वय-व्यतिरेकाभ्यां हेतुत्वस्यावधारितत्वेन तमसस्तेजोविशेषाभावरूपत्वे तेजोविशेषरूपप्रतियोगिज्ञानं विना तज्ज्ञानं न स्यात्। ननु आलोकं जानतामेव तमःप्रत्यक्षस्वीकारेण तेजोज्ञानं विना तमोज्ञानं न स्यादितीष्टापत्तिरेव, तदाहुरुदयनाचार्याः- गिरिदरीविवरवर्तिनो यदि योगिनो न ते तिमिरावलोकिनः, तिमिरावलोकिनश्चेद् नूनं स्मृताऽऽलोकाः" [ ] इति, इति चेत् ? न-तेजसोऽप्रतिसन्धानेऽपि तमोऽनुभवस्थ प्रत्यक्षसिद्धत्वात् । अथाभावज्ञानसामान्य प्रति अभावप्रत्यक्षसामान्यं प्रति वा न प्रतियोगिज्ञानं कारणम्, प्रतियोगिनो घटपटादेरग्रहेऽपि सर्व प्रमेयं सर्व वाच्यं सर्व ज्ञेयमित्येवं प्रमेयत्व-वाच्यत्व-ज्ञेयत्वादिनाऽभावज्ञानस्याभावत्वलक्षणसामान्यलक्षणालौकिकप्रत्यासत्त्या निखिलाभावविषयकालौकिकप्रत्यक्षस्य चोत्पादेन व्यतिरेकव्यभिचारात्; तदभावलौकिकप्रत्यक्षे तज्ज्ञानं हेतु
९ शास्त्र०स०