________________
१२८ शास्त्रवार्तासमुच्चयः।
[प्रथमः चारः, विभोरात्मन आलोकेनापि समं संयोगोऽस्ति, स च संयोगः समवायेना. त्मनि वर्तते, किन्तु स न कारणम् , किन्तु यस्य द्रव्यस्य चक्षुषा प्रत्यक्षं भवति तेन द्रव्येण सममालोकसंयोगः कारणम् , स च साक्षात्सम्बन्धेनाऽऽत्मनि वर्तत इति स्वावच्छेदकेत्यादिपरम्परासम्बन्धस्य कारणतावच्छेदकसम्बन्धतयोपादानम् , मनस्संयोगोऽप्यात्मनि सर्वदैव वर्तत इति तथाभूतसंयोगसम्बन्धेनाऽऽलोकसंयोगस्य न कारणत्वमिति परम्परासम्बन्धघटकतया मनःप्रतियोगिकविजातीयसंयोगस्योपादानम् ' इत्यपि न निरवद्यम् , सम्बन्धगौरवात् , किञ्चिदवयवावच्छेदेनाऽऽलोकसंयुक्तेनैव चक्षुषाऽन्धकारवद्भित्तिसंयोगे वस्तुग्रहणप्रसङ्गाच; विषयनिष्ठप्रत्यासत्या कार्यकारणभावे यद्विषयस्य प्रत्यक्षं तत्रैव समवायेन सन् आलोक संयोगः कारणमित्यन्धकारस्थभित्त्यादिविषयेण सममालोकसंयोगाभावात् तत्प्रत्यक्षापत्तिर्न संभवति, आत्मनिष्ठप्रत्यासत्त्या कार्यकारणभावे तु निरुक्तसम्बन्धेन येन केनापि सममालोकसंयोगस्याऽऽत्मनि सत्तया कारणसम्पत्तेरालोकासंयुक्तस्याप्यन्धकारस्थभित्त्यादिवस्तुनश्चक्षुस्संयुक्तस्य चाक्षुषप्रत्यक्षं स्यादतो विषयनिष्ठप्रत्यासत्त्यैव द्रव्यचाक्षुषत्वावच्छिन्नं प्रत्यालोकसंयोगत्वेन हेतुत्वमिति तमसो द्रव्यत्वे आलोकनिरपेक्षचक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वं न स्यात् ; [ इति पूर्वपक्षिणः ] इति चेत् ?
न-अलोकं नाऽपि रात्रिञ्चराणां घूकादीनां द्रव्यचाक्षुषोदयाद् व्यभिचारेण द्रव्यचाक्षुषत्वावच्छिन्नं प्रत्यालोकसंयोगत्वेन हेतुत्वासम्भवात् ; न च चैत्रादिचाक्षुष एवाऽऽलोकसंयोगत्वेन हेतुत्वान्न व्यभिचार इति वाच्यम् , तथाऽप्यअनादिसंस्कृतचक्षुषां तस्करादीनां रात्रावालोकमन्तरेणैवान्धकारस्थितधनादिचाक्षुषप्रत्यक्षोदयाद् व्यभिचारात् ; न चाऽऽलोकसंयोगस्याञ्जनाद्यसंस्कृतचैत्रादिचक्षुर्जन्यचाक्षुषे कारणत्वम् , अञ्जनादिसंस्कृतचक्षुर्जन्यप्रत्यक्षस्योक्तकार्यताऽवच्छेदकानाक्रान्तत्वेनाऽऽलोकसंयोगं विना भावेऽपि न व्यभिचारः, अञ्जनादीनां चाञ्जनादिजन्यचाक्षुषे पृथगेव हेतुत्वम् , व्यभिचारेण च सामान्यतश्चाक्षुषत्वावच्छिन्नं प्रति नाञ्जनादीनां नाप्यालोकसंयोगस्य हेतुत्वमिति वाच्यम् , अननुगमात् , प्रत्यक्षत्वव्याप्यजातेश्चाक्षुषत्वस्य जन्यमात्रवर्तिनः किञ्चिद्धर्मावच्छिन्नकारणतानिरूपितकार्यतावच्छेदकत्वस्य नियमेन तदवच्छिन्नं प्रति चक्षुरादीनां कारणत्वस्याऽऽवश्यकतयाऽऽलोकसंयोगाञ्जनादिसंस्काराभावेऽपि तद्वलाञ्चाक्षुषसामान्योत्पत्त्यापत्तेश्चेत्यत आलोकायुद्धोध्यक्षयोपशमरूपयोग्यताया एवानुगत