SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ स्तबकः]. स्याद्वादवाटिकाटीकासङ्कलितः १२७ भवतीत्यालोकगगनसंयोग आलोकप्रतियोगिकः, स चालोके समस्तीति तत्रापि व्यभिचाराप्रसक्तेः; न च तेजोमात्रमालोक इति सुवर्णमपि तेजोरूपत्वादालोकस्तेन सह यो गगनसंयोगः सोऽप्यालोकसंयोगस्तस्य बहलतमे तमसि विद्यमाने सुवर्णे सत्त्वाञ्चक्षुःसंयोगस्यापि तत्र भावाच्चाक्षुषप्रत्यक्षं स्यादिति वाच्यम् , महदुद्भूतानभिभूतरूपवदालोकसंयोगत्वेनालोकसंयोगस्य द्रव्यचाक्षुषं प्रति कारणत्वात् , सुवर्णस्याभिभूतरूपवत्त्वेन तत्संयोगस्य निरुक्तकारणावच्छेदकधर्माना. क्रान्तत्वात् । ननु यत्र घटे पृष्ठावच्छेदेनाऽऽलोकसंयोगश्चक्षुस्त्वग्रावच्छेदेन तस्य घटस्य सम्भृतसामग्रीकत्वेन चाक्षुषापत्तिरिति चेत् ? न-चक्षुस्संयोगावच्छेदकावच्छिन्नाऽऽलोकसंयोगत्वेन चाक्षुषं प्रति कारणत्वे उक्तदोषाभावात् ; न च चक्षुस्संयोगावच्छेदकावच्छिन्नालोकसंयोगत्वेन, आलोकसंयोगावच्छेदकावच्छिन्नचक्षुस्संयोगत्वेन वा चाक्षुषं प्रति कारणत्वमित्यत्र विनिगमनाविरह इति वाच्यम् , उद्दयोतस्थपुरुषस्यान्धकारस्थवस्तुसाक्षात्कारानुदयस्य विनिगमकत्वात् ; तत्रालोकसंयोगावच्छेदकावच्छिन्नचक्षुस्संयोगस्य सत्त्वात् , तस्य चक्षुस्संयोगस्य यथाऽऽलोकसंयोगावच्छेदकावच्छिन्नत्वं तदाश्चयस्य चक्षुष आलोकदेशेऽवस्थानात्, तथा आलोकसंयोगानवच्छेदकावच्छिन्नत्वमपि, तदाश्रयस्य चक्षुष आलोकविरहितेऽन्धकारस्थवस्तुदेशेऽप्यवस्थितेरत आलोकसंयोगानवच्छेदकानवच्छिन्नचक्षुस्संयोगत्वेन हेतुत्वे उद्दयोतस्थपुरुषचक्षुषोऽन्धकारस्थवस्तुना संयोगस्य निरुक्तकारणताऽवच्छेदकधर्मानाक्रान्तत्वान्न ततोऽन्धकारस्थवस्तुसाक्षात्कार इति तदनुदय उपपद्यत इति नाशङ्कयम् , गौरवेण तथा हेतुत्वासम्भवात् , अन्धकारस्थस्य पुंस उद्दयोतस्थवस्तुनो ग्रहणं भवति तस्य निरुक्तहेतुत्वाभ्युपगमेऽभावापत्तेः, अन्धकारस्थपुरुषचक्षुष उद्दयोतस्थवस्तुना संयोगस्याऽऽलोकसंयोगानवच्छेदका. न्धकारस्थदेशावच्छिन्नत्वात् , तदाश्रयस्य चक्षुषोऽन्धकारस्थदेशेऽप्यवस्थितेः; अत एव 'समवायेनाऽऽलोकाभावान्यलौकिकचाक्षुषं प्रति स्वावच्छेदकावच्छिन्नसंयोगवच्चक्षुस्संयुक्तमनःप्रतियोगिकविजातीयसंयोगसम्बन्धेनाऽऽलोकसंयोगस्य हेतुत्वम् , कार्यतावच्छेदककोटावालोकाभावान्यत्वनिवेशात् स्वावच्छेदकेत्यादिसम्बन्धेनाऽऽलोकसंयोगस्याऽऽत्मन्यभाव एव समवायेनाऽऽलोकाभावविषयकलौकिकचाक्षुषस्योत्पादेन व्यभिचारस्य नावकाशः, लौकिकत्वनिवेशादात्मनि समवायेनाऽऽलोकाभावान्यविषयकालौकिकसामान्यलक्षणादिप्रत्यासत्तिजन्यचाक्षुषस्य स्वावच्छेदकावच्छिन्नेत्यादिसम्बन्धेनालोकसंयोगाभावे भावेऽपि न व्यभि
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy