________________
१२६ शास्त्रवार्तासमुच्चयः।
[प्रथमः च द्रव्यारम्भकत्वान्यथानुपत्त्या चक्षुराद्यवयवेषु चक्षुरादिषु चानुभूतस्पर्शोऽङ्गीकर्तव्य इति वाच्यम् , अनन्तानुद्भूतस्पर्शकल्पनामपेक्ष्य येषु येषु जन्यद्रव्योत्पत्तिस्तेषु जन्यद्रव्यजनकतावच्छेदकवैजात्यकल्पनाया एवोचितत्वात् , न च समवायसम्बन्धेन जन्यद्रव्यं प्रति तादात्म्यसम्बन्धेन मूर्तत्वेन मूर्तस्य कारणत्वमस्त्विति वाच्यम् , मूर्तत्वस्य मनस्यपि सत्त्वेन तत्र जन्यद्रव्यानुत्पत्त्या व्यभिचारात् ; न च मनसि तादात्म्येन मूर्तरूपकारणस्य भावेऽपि विजातीयसंयोगरूपहेत्वन्तराभावादेव द्रव्यान्तरानुत्पत्तिरिति वाच्यम् , यक्रियया घटे मनसि चानारम्भकः संयोगो जनितस्तत्क्रियाजन्यताऽवच्छेदाय संयोगे वैजात्यस्यावश्यकत्वात् , उक्तवैजात्यस्य कचिन्नोदनाख्यसंयोगे क्वचिच्चाभिघाताख्यसंयोगे सत्त्वमिति नोद-- नत्वादिना सायं स्यादिति तत्परिहाराय निरुक्तवैजात्यव्याप्यं नोदनत्वमन्यदमन्यच्च तदसमानाधिकरणं नोदनत्वं तथा निरुक्तवैजात्यव्याप्यमभिघातत्वमन्यद. न्यच्च तदसमानाधिकरणमभिघातत्वमित्येवं नानानोदनत्वाऽभिघातत्वानां कल्पनीयत्वात् ; न च मनोऽन्यमूर्तत्वेन जन्यद्रव्यं प्रति कारणत्वम् , घटादौ जन्यद्रव्योत्पत्तेर्जन्यद्रव्यत्वावच्छिन्नं प्रत्यन्त्यावयवित्वेन प्रतिबन्धकत्वकल्पनया वारणेऽपि गौरवात् , एवं च जन्यद्रव्यजनकताऽवच्छेदकतया जातिकल्पने, मनसि द्रव्यानुत्पत्तये द्रव्यजनकविजातीयसंयोगकल्पने द्रव्यानारम्भकसंयोगे तक्रियाजन्यतावच्छेदकवैजात्यकल्पने, तत्साकर्यपरिहाराय निरुक्तवैजात्यव्याप्यनोदनस्वादिकल्पने, तत्तद्वैजात्यावच्छिन्नं प्रति कारणस्य कल्पने च गौरवाद् वरं शक्त्या ख्योऽतिशय एवानतिप्रसक्तो द्रव्यजनकः कल्प्यते, तस्यातिशयस्य तमोऽवयवेऽपि भावात् ततो निःस्पर्शेऽपि तमोऽवयचे तमस उत्पत्तिनिराबाधेति सूक्ष्म विभावनीयम् ।
अथ तमसो द्रव्यत्वे आलोकनिरपेक्षचक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वं न स्यात् , द्रव्यवृत्तिलौकिकविषयतासम्बन्धेन चाक्षुषत्वावच्छिन्नं प्रति समवायसम्बन्धेनालोकसंयोगस्य हेतुत्वात् तमसि चालोकसंयोगस्याभावात् , एकत्रावस्थितयोः संयोगो भवति, आलोकतमसोश्च विरोधेनैकत्र स्थानायोगात् ; न च स्वस्मिन्न स्वप्रतियोगिकसंयोगः, संयोगो हि द्वयोर्भवति नैकस्यैवेत्यालोकान्तरासमवधाने आलोके आलोकसंयोगो नास्ति, अथ च तस्य द्रव्यस्य सतश्चाक्षुषप्रत्यक्षं भवतीति तत्र व्यभिचारेण नोक्तकार्यकारणभावसम्भव इति वाच्यम् , यक्रियया यःसंयोग उपजायते तत्प्रतियोगिकत्वं तत्संयोगस्येत्यालोकक्रिययाऽऽलोकगगनसंयोगो