________________
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः
१२५ तादात्म्यसम्बन्धावच्छिन्नपृथिवीत्वावच्छिन्नकारणतानिरूपितसमवायसम्बन्धावच्छिन्नपाकजनीलनिष्ठकार्यतावच्छेदकत्वस्य नीलत्वावान्तरजातिविशेषस्यैव कल्पयितुमुचितत्वेन तस्य वैजात्यस्य तमोनीलेऽभावेन तस्य पृथिवीं विनाऽप्युत्पत्तिसंभवेन तदुत्पत्त्या तमसि पृथिवीत्वापत्त्यसंभवात् ।
ननु समवायेन जन्यद्रव्यत्वावच्छिन्नं प्रति तादात्म्येन स्पर्शवत्त्वावच्छिन्नस्य कारणत्वात् तमसो जन्यद्रव्यत्वे स्पर्शवदवयवारभ्यत्वं स्यादिति चेत् ? न-तमोऽ. वयवानां स्पर्शवत्त्वेन तत्र स्पर्शवदवयवारभ्यत्वस्येष्टत्वात् , यत्र द्रव्यजनकातिशयस्तत्र द्रव्यमुत्पद्यत इति नियमेन तमोऽवयवानां स्पर्शशून्यत्वेऽपि वा तमोलक्षणद्रव्यजनकशक्क्याख्यातिशयवत्त्वात् तेषु तमोद्रव्योत्पत्तिसम्भवाच्च, अन्त्यावयविनि घटादौ स्पर्शवत्त्वस्य सत्त्वेन तत्र द्रव्योत्पत्तेरभावेन द्रव्यनिष्ठकार्यतानिरूपितकारणताया अधिकदेशवृत्तिना स्पर्शवत्वेनावच्छेदासम्भवादन्यूनानतिरिक्तवृत्तिधर्मस्यैवावच्छेदकत्वमिति नियमस्य त्वयाऽप्युररीकृतत्वेन समवायेन द्रव्यत्वावच्छिन्नं प्रति तादात्म्येन स्पर्शवत्वेन कारणत्वस्य कल्पयितुमशक्यत्वात् ;न चान्त्यावयविभिन्नत्वे सति स्पर्शवत्त्वं द्रव्यजनकताऽवच्छेदकम् , तत्र न व्यभिचार इति वाच्यम् , द्रव्यसमवायिकारणत्वमेवावयवत्वम् , अवयवभिन्नत्वे सत्यवयवित्वमेवान्त्यावयवित्वम् , द्रव्यसमवायिकारणभिन्नभिन्नत्वं द्रव्यसमवायिकारणत्वमेव पर्यवस्यति, स्पर्शवत्त्वनिवेशसाफल्याय द्रव्यसमवायिकारणभिन्नत्वेनावयविनमुपादाय तद्भिन्नत्वं किमिति निवेश्यम् , तथा च द्रव्यसमवायिकारणं स्पर्शवदेव भवतः सम्मतमिति स्पर्शवत्त्वमव्यावर्तकत्वान्न निवेश्यम् , एवं च द्रव्यसमवायि कारणत्वेन द्रव्यसमवायिकारणत्वं तत्र चाऽऽत्माऽऽश्रयात् ; ननूक्तदोषसंभवादत्यावयविभिन्नत्वं कारणकोटौ न निवेश्यते, किन्तु समवायेन द्रव्यत्वावच्छिन्नं प्रति तादात्म्येन स्पर्शवत्वेनैव कारणत्वम् , जन्यद्रत्वात्वच्छिन्नं प्रति अन्त्यावयवित्वेन प्रतिबन्धकत्वादन्त्यावयविनि द्रव्यानुत्पत्तेर्न दोष इति चेत् ? न-उक्तरीत्या दोषापाकरणेऽपि नव्यैश्चक्षुरादिष्वनुद्भूतस्पर्शानभ्युपगमेन तदवयवेष्वपि स्पर्शस्य तन्मतेऽभावेऽपि निःस्पर्शेरेव तैश्चक्षुरादिजन्यद्रव्यस्योत्पादेन व्यभिचारेण जन्यद्रव्यत्वावच्छिन्नं प्रति स्पर्शवत्वेन कारणत्वासम्भवात् , चक्षुरादयो वा नान्त्यावयविनः, दूरदेशव्यवस्थितद्रव्यप्राप्त्यर्थमधिष्ठानस्थितस्याल्पपरिणामस्यापि चक्षुषो बाह्यालोकसहकारेण बहिर्निर्गतस्य महच्चक्षुरारम्भकत्वस्योररीकारेण नव्यमते स्पर्शरहितस्यैव तस्य जन्यद्रव्यारम्भकत्वेन व्यभिचारादुक्तहेतुत्वासम्भवात् ; न