SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः । [ प्रथमः प्रभाघटसंयोगादीनां च त्वाचप्रत्यक्षं न भवति, उद्भूतत्वाऽनुद्भूतत्वे च विशेषगुणावेव कल्प्येते न सामान्यगुणाविति घट-पट संयोगादितो घट - प्रभा-संयोगादीनां वैजात्यमभ्युपेत्य तद्रूपेण त्याचप्रत्यक्षप्रतिबन्धकत्वकल्पनापेक्षयोक्तवै जात्यस्थाने त्वगग्राह्यत्वस्वभाव एव कल्पनीयः येषां त्वाचप्रत्यक्षं न भवति तेषु त्वगग्राह्यत्वस्वभाव इति तत एव त्रसरेणुस्पर्शस्यापि न स्पार्शनमिति न तदनुरोधेनोक्तप्रतिबध्यप्रतिबन्धकभावकल्पनमपि न्याय्यम् । " १२४ साम्प्रदायिकास्तु रत्नप्रभाचार्यादयः “यत्रोद्भूतरूपवत्त्वं तत्रोद्भूतस्पर्शवत्त्वमिति नियमोऽपि न नः प्रतिकूलः, यतस्तमसि पवनाभिव्यज्यमानः शीतस्पर्शोऽप्यनुभूयत एव, अत उद्भूतस्पर्शवत्त्वमपि तत्र" इत्यामनन्ति । न अथ समवायसम्बधेन नीलत्वावच्छिन्नं प्रति तादात्म्यसम्बन्धेन पृथिवीत्वावच्छिन्नस्य कारणत्वमिति तमसि नीलरूपवत्त्वे पृथिवीत्वमापद्येतेति चेत् ? नस्याद्वादिनामस्माकं मते स्वभावविशेषस्यैव विशिष्टनील नियामकत्वात् कथमन्यथा पृथिवीत्वाविशेषेऽपि कचिन्नीलं क्वचिन्नीलतरं क्वचिन्नीलतमादीत्येवं नीलविशेषसम्भवः, कणाद मतानुयायिनोऽपि समवायसम्बन्धेन नीलं प्रति स्वसमवायिसमवेतत्वसम्बन्धेन नीलं कारणमित्यवयवनीला दवयविनीलोत्पत्तिसंभवेन समवायसम्बन्धावच्छिन्ननीलत्वावच्छिन्न कार्यतानिरूपिततादात्म्य सम्बन्धावच्छिन्नपृथिवीत्वावच्छिन्नकारणत्वरूपस्य पृथिव्या नीलसमवायिकारणत्वस्याभावात् ; च कपालाद्यवयवगतनीलं स्वसमवायिसमवेतत्वसम्बन्धेन यथा घटाद्यवयविनि वर्तते तथा कपालादिगतनीलेऽपि वर्तत इति कपालादिनीलेऽप्युक्तकारणबलान्नीलोत्पत्तिः स्यादिति वाच्यम्, समवायसम्बन्धेन जन्यसत्त्वावच्छिन्नं प्रति तादात्म्यसम्बन्धेन द्रव्यत्वावच्छिन्नं कारणमिति समवायसम्बन्धावच्छिन्नजन्यसत्त्वावच्छिन्न कार्यतानिरूपित तादात्म्य सम्बन्धावच्छिन्नकारणतावच्छेदकस्य द्रव्यत्वस्याभावादेव जन्यसतो नीलस्य नीले उत्पत्त्यापत्त्यसम्भवात् ; नन्वपाकजनीलस्योक्तदिशा पृथिवीत्वेन कारणत्वानभ्युपगमतोऽपि अवयविन्युत्पत्तिनिर्वाहेऽपि पाकजनीलोत्पत्त्यनुरोधेन पृथिवीत्वेन कारणत्वमवश्यमभ्युपेयम्, अन्यथा नीलजनकविजातीय तेजस्संयोगलक्षणपाकस्य समवायेन पृथिव्यामिव समवायेन जलादावपि सम्भवेन तत्रापि नीलोत्पत्तिः स्यादिति चेत् ? न-व्याप्यधर्मस्य कार्यतावच्छेदकत्वे सम्भवति व्यापकधर्मस्यान्यथासिद्धत्वान्न कार्यतावच्छेदकत्वमिति www.w
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy