________________
स्तबकः]
स्याद्वादवाटिकाटीकासङ्कलितः
१२३
www
जनकताया इवानुभूतस्पर्शस्यापि निमित्तभेदसंसर्गेणोद्भूतस्पर्शजनकतासम्भवाद् दृष्टान्तासम्प्रतिपत्तेः, निमित्तभेदसंसर्गेणोद्भूतानुद्भूते भवत इत्युदयनाचार्यस्यापि सम्मतम् , तदुक्तं कुसुमाञ्जलौ
“निमित्तभेदसंसर्गादुद्भवानुद्भवादयः ।
देवताः सन्निधानेन प्रत्यभिज्ञानतोऽपि वा ॥ १ ॥” इति । भत्र पूर्वार्धाभिमतार्थस्फुटीकरणं तत्रैवेत्थम्-"उपनायकादृष्टविशेषसहाया हि परमाणवो द्रव्यविशेषमारभन्ते, तेषां विशेषादुद्भवविशेषाः, [उद्भूतानुद्भूतभेदाः] प्रादुर्भवन्ति, तथा स्वभावद्रवा अप्यापो निमित्तभेदप्रतिबद्धद्रवत्वाः कठिनं करकाद्यारभन्ते, इत्यादि स्वयमूहनीयम्" इति ।
इदं च वर्द्धमानोपाध्यायेनेत्थं व्याख्यातम्-"निमित्तभेदेति-यद्यप्युद्भूतानुभूतपरमाणुरूपादेव तत्कार्यमुद्भूतमनुद्भूतं चोत्पद्यत इति निमित्तभेदस्तत्राप्रयोजकः, तथाऽपि साक्षात्कारप्रयोजकतयोद्भूतत्वकल्पनात् परमाणुगुणेषु तन्नास्तीत्यदृष्टविशेषादेवानुद्भूतरूपादप्युद्भूतरूपं जायत इत्यभ्युपेयम्, न च याऽवयविरूपवृत्तिजातिः सा परमाणुरूपवृत्तिरिति व्याप्तिः, चित्रत्वजातौ व्यभिचारात्, 'उद्भवानुभवादयः' इत्यतद्गुणसंविज्ञानबहुव्रीहिणा कठिनकरकाविधुदादीनां सङ्ग्रह इत्यप्याहुः, 'देवताः' इत्यत्राऽऽराधनीयतामासादयन्तीत्यध्याहार्यम् , उपनायकेति-परमाणुक्रियाजनकमदृष्टमित्यर्थः” इति ।
अपि च त्रसरेणावुद्भूतरूपवद् याद्भूतस्पर्शोऽप्युपेयते तदा तत्स्पर्शस्य स्पार्शनप्रत्यक्षप्रसङ्गः, स्पर्शानप्रत्यक्षे महत्त्वविशेषः कारणम् , महत्त्वविशेषश्च त्रसरेणी नास्तीति न तत्स्पर्शस्पानिमिति चेत् ? न-एकत्वविशेस्य स्पार्शनप्रत्यक्षं प्रति कारणत्वमभ्युपगम्य तदभावान्न तत्स्पर्शस्पार्शनमित्यपि विनिगमनाविरहादापयेत । आश्रयत्वाचाभावस्य द्रव्यान्यसत्त्वाचं प्रति प्रतिबन्धकत्वात् सरेणुरूपाश्रयस्य त्वाचप्रत्यक्षाभावेन तदात्मकप्रतिबन्धकसद्भावान्न त्रसरेणुस्पर्शस्पार्शनम्, चतस्त्रेणुस्पार्शनानुरोधेन प्रतिबध्यकौटौ द्रव्यान्यत्वनिवेशः, घटादिगता सत्तादिजातिरेव परमाण्वादिगताऽपीति परमाण्वाद्यात्मकाश्रयत्वाचाभावस्य तत्र सत्त्वात् तत्त्वाचप्रत्यक्षानुपपत्तिः स्यादतः प्रतिबध्यकोटौ सत्त्वस्य प्रवेश इति चेत् ? नउद्भूतस्पर्शाभावस्यैव लाघवेन तत्स्पार्शनप्रतिबन्धकत्वेन ब्यणुकस्पर्शस्यानुद्भूतत्वकल्पनया तत्स्पार्शनापत्त्यसम्भवात् , घट-पटसंयोगादीनां त्वाचप्रत्यक्षं भवति,