SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १२२ शास्त्रवार्तासमुच्चयः। [प्रथमः "तेजसोऽतिविनिवृत्तिरूपता, स्वीकृता तमसि या कणाशिना। द्रव्यतां वयममी समीक्षिणस्तत्र पत्रमवलम्ब्य चक्ष्महे ॥" [ ] तमो द्रव्यं रूपवत्त्वाद् घटवत् , अत्र पक्षस्य तमसः प्रसिद्धिः प्रत्यक्षादेवः न च रूपवत्त्वलक्षणस्य हेतोस्तत्रासिद्धिरिति वाच्यम् , सार्वजनीनतमोनीलमिति प्रत्यक्षप्रतीतित एव तमसि रूपवत्वप्रसिद्धिः, बाधकाभावेनोक्तप्रतीतेभ्रंमत्वासम्भवात् ; न च यत्रोद्भूतरूपवत्त्वं तत्रोद्भूतस्पर्शवत्वमिति व्याप्तेस्तमसि उद्भूतरूपवत्त्वे उद्भूतस्पर्शवत्वापत्तिस्तमसि रूपवत्वप्रतीतेर्बाधिका, इन्द्रनीलमणिप्रभासहचरितनीलभागे उद्भूतरूपवत्त्वमस्त्युद्भूतस्पर्शवत्त्वं च नास्तीति व्यभिचारान्नोक्तव्याप्तिरिति नाशङ्कनीयम् , स्मर्यमाणारोपेणैवेन्द्रनीलप्रभायां नीलधीसम्भवाद् गौरवादेवेन्द्रनीलप्रभासहचरितनीलभागस्याकल्पनेनोक्तव्यभिचाराभावात् , कुङ्कुमादिपूरितस्फटिकभाण्डे बहिरारोप्यमाणपीताश्रयेऽपि न व्यभिचारः, तत्रापि स्मर्यमाणारोपेणैव पीतधीनिर्वाहाद् बहिष्पीतद्रव्याकल्पनात् , बहिर्गन्धोपलब्धेस्तु वायवाकृष्टानुद्भूतरूपभागान्तरेणैवोपपत्तेरिति वाच्यम् , यत्रोद्भूतरूपवत्त्वं तत्रोद्भूतस्पर्शवत्त्वमिति व्याप्तो मानाभावात् , प्रभायामुद्भूतभास्वरशुक्लरूपवत्त्वमस्ति न चोद्भूतस्पर्शवत्त्वं तत्र समस्तीति व्यभिचारणोक्तव्याप्तेरसम्भवाचन च यत्र यत्रोद्भूतनीलरूपवत्त्वंतत्रोद्भूतस्पर्शवत्त्वमित्येव नियमः; प्रभायां चोद्भूतभास्वरशुक्लरूपवत्त्वमेव नोद्भूतनीलरूपवत्त्वमिति नोक्तनियमे तत्र व्यभिचारः, धूमे चोद्भूतनीलरूपवति उद्भूतस्पर्शवत्त्वमपि समस्त्येवेति न तत्र व्यभिचारः, धूमस्योद्भूतस्पर्शवत्त्वादेव चोद्भूतस्पर्शवद्भूमसंयोगाच्चक्षुषो जलनिपात इति वाच्यम् , अश्रुपातं प्रति चक्षुधूमसंयोगत्वेनैव हेतुत्वस्य कल्पनेन गौरवेणोद्भूतस्पर्शवभूमसंयोगत्वेन हेतुत्वाकल्पनाद् धूमे उद्भूतस्पर्शासिद्धया यत्रोद्भूतनीलरूपवत्त्वं तत्रोद्भूतस्पर्शवत्त्वमिति नियमस्य धूमे व्यभिचारतोऽसम्भवात् , त्रसरेणोश्चाक्षुषप्रत्यक्षं भवति न तु स्पार्शन मिति तदनुरोधेन तत्रोद्भूतरूपवत्त्वमुपेयते न तूद्भूतस्पर्शवत्त्वम् , तथा च नीलित्रसरेणावुद्भूतनीलरूपवत्युद्भूतस्पर्शाभावेन व्यभिचाराच्च; न चावयविन्यपाकजोद्भूतस्पर्शवत्त्वमवयवगतोद्भूतस्पर्शमन्त। न सम्भवतीत्यवयविगतोद्भूतस्पर्श प्रति अवयवगतोद्भूतस्पर्शः कारणम् , तथा च पाटितपटसूक्ष्मावयवे उद्भूतस्पर्शवत्पटपरम्परावयवत्वाद् यथोद्भूतस्पर्शवत्त्वानुमान तथा नीलित्रसेरणावप्युद्भूतस्पर्शवदवयविपरम्परावयवत्वादुद्भूतस्पर्शवत्त्वानुमानं भविष्यतीति तत्राप्युद्भूतस्पर्शवत्त्वं समस्त्येवेति न व्यभिचार इति वाच्यम्, अनुभूतरूपस्योद्भूतरूप
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy