________________
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः
उपदर्शितव्याख्यानद्वयं द्वैतवादविद्वेषमूलककदाग्रहविलसितमतोऽनादेयमेव समदृष्टिभिः, किन्तु यथा श्रुतशब्दसमभिव्याहारमानोपनिपात्यक्लिष्टमित्थं व्याख्यानं युक्तम् , तद्यथा
असतः अलीकस्य शशशृङ्गादेः, भावः उत्पादः, न विद्यते न सम्भवति, असतोऽप्युत्पादे पृथिव्यादिवत् सत्त्वप्रसक्त्याऽसत्त्वं व्याहन्येत, सतः पृथिव्यादेविद्यमानस्य वस्तुनः, अभावः अविद्यमानत्वम्, न नास्ति, सतोऽप्यभावे शशशृङ्गादिवदसत्त्वं प्रसज्येत, उभयोरप्यनयोः सदसतोरुभयोरपि, अन्तो नियमः-यद् यत्रोत्पद्यते तत् तत्र सत् , यञ्च यत्र सत् तत् तनिष्ठाभावाप्रतियोगीत्याकारकः, दृष्टः-प्रमितः, प्रमा च दर्शिताकारकं ज्ञानम् , कैः प्रमित इत्यपेक्षायामाह-तत्त्वदर्शिभिरिति-परमार्थग्राहिभिरित्यर्थः ॥ ७६ ॥
असतो भावो न भवति सतोऽभावो न भवतीत्यमुमथ परेऽपि कीर्तयन्तीत्युपदर्शयति परवचनम्
नाभावो भावमानोति, शशशृङ्गे तथाऽगतेः ।
भावो नाभावमेतीह, दीपश्चेन्न स सर्वथा ॥ ७७ ॥ नाभाव इति । अभावः तुच्छः, भावं पारमार्थिकत्वम् , नाप्नोति न प्रतिपद्यते । कुत इत्थमवधारितमित्यपेक्षायामाह-शशशृङ्गे तथाऽगतेरिति-तुच्छे शशशृङ्गे भावत्वेन परिच्छेदाभावादित्यर्थः । यथाऽभावो न भावतां प्रतिपद्यते तथा भावोऽप्यभावतां नोपयातीत्याह-भाव इति-अतुच्छस्वभावः पारमार्थिकः, इह जगति, अभावं तुच्छस्वभावं नैति न प्रामोति । ननु पारमार्थिकोऽपि दीपोऽन्तेऽन्धकारो भवति, अन्धकारश्च प्रकृष्टमहदुद्भूतरूपवत्तेजोऽभावस्वरूपस्तुच्छ एवेत्याशङ्कते-दीपश्चेदिति-भावरूपो दीप आलोकाभावात्मकान्धकारस्वरूपतां प्रतिपद्यते इति चेदित्यर्थः । उत्तरयति-न स सर्वथेति । स दीपस्यान्धकारलक्षणपरिणामः, सर्वथा एकान्ततः, न प्रक्रमादभावरूप इति सर्वथाsभावरूपो नेत्यर्थः, दीपरूपेण परिणतानां भास्वरपुद्गलानामेव तमोरूपेण परिणामाद् भास्वरपरिणामत्यागेऽपि द्रव्यत्वापरित्यागात् तमसो द्रव्यरूपतयैव स्याद्वादिभिरभ्युपगमादित्याशयः।
अत्र शिष्यबुद्धिवैशद्यार्थ सोपस्कारं तमसो द्रव्यत्वव्यवस्थापकमुपाध्यायवचननिकुरम्बमुपदश्यते
ww