SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १२० शास्त्रवार्तासमुच्चयः । [प्रथमः सौम्य! शुङ्गेन तेजो मूलमन्विच्छ, तेजसा सौम्य ! शुङ्गेन सन्मूलमन्विच्छ, सन्मूलाः सौम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः”[ ] इति श्रुतिः । सर्वेषामपि विकाराणां सति कल्पितत्वं दर्शयति, सत्त्वं च न सामान्यं तत्र मानाभावात् , पदार्थमात्रसाधारण्यात् सत् सदिति प्रतीत्या द्रव्य-गुण-कर्ममात्रवृत्तिसत्त्वस्य स्वानुपपादकस्याकल्पनात् , वैपरीत्यस्यापि सुवचत्वात् , एकरूपप्रतीतेरेकरूपविषयनिर्वाह्यत्वेन सम्बन्धभेदस्य स्वरूपस्य च कल्पयितुमनुचितत्वात् , विषयस्थाननुगमेऽपि प्रतीत्यनुगमे जातिमात्रोच्छेदप्रसङ्गात् ,तस्मादेकमेव सद् वस्तु स्वतः स्फुरणरूपं ज्ञाताज्ञातावस्थाभासकं स्वतादात्म्याध्यासेन सर्वत्र सद्व्यवहारोपपादकम् , सन् घट इति प्रतीत्या तावत् सद्वयक्तिमात्राभिन्नत्वं घटे विषयीकृतम् । न तु सत्तासमवायित्वम् , अभेदप्रतीतेभैदघटितसम्बन्धानिर्वाह्यत्वात् , एवं द्रव्यं सद् गुणः सन्नित्यादिप्रतीत्या सर्वाभिन्नत्वं सतः सिद्धम् , द्रव्यगुणभेदासिद्ध्या च न तेषु धर्मिषु सत्त्वं नाम धर्मः कल्प्यते, किं तु सति धर्मिणि द्रव्याद्यभिन्नत्वं लाघवात् , तच्च वास्तवं न सम्भवतीत्याध्यासिकमित्यन्यत् , तदुक्तं वार्तिककारैः "सत्तातोऽपि न भेदः स्याद् द्रव्यत्वादेः कुतोऽसतः। । एकाकारा हि संवित्तिः, सद्रव्यं सद्गुणस्तथा ॥ १ ॥” इत्यादि, सत्ताऽपि नासतो भेदिका तस्या अप्रसिद्धः, द्रव्यत्वादिकं तु सद्धर्मत्वान्न सतो भेदकमित्यर्थः, अत एव 'घटाद् भिन्नः पटः' इत्यादिप्रतीतिरपि न भेदसाधिका, घट-पट-तद्भेदानां सदभेदेनैक्यात् , एवं यत्रैव न भेदग्रहस्तत्रैव लब्धपदा सती सदभेदप्रतीतिर्विजयते, तार्किकैः कालपदार्थस्य सर्वात्मकस्याप्युपगमात् तेनैव सर्वव्यवहारोपपत्तौ तदतिरिक्तपदार्थकल्पने मानाभावात् , तस्यैव सर्वानुस्यूतस्य सदूपेण स्फुरणरूपेण च सर्वतादात्म्येन प्रतीत्युपपत्तेः, स्फुरणस्यापि सर्वानुस्यूतत्वेनैकत्वान्नित्यत्वं विस्तरेणाग्रिमश्लोके वक्ष्यते, तथा च यथा कस्मिंश्चिद् देशे काले वा घटभिन्नस्य पटादेर्न देशान्तरे कालान्तरे वा घटत्वम् , एवं कस्मिंश्चिद् देशे काले वा घटस्यान्यत्राघटत्वं शक्रेणापि न शक्यते संपादयितुम् , पदार्थस्वभावभङ्गायोगात् , एवं कस्मिंश्चिद् देशे काले वाऽसतो देशान्तरे कालान्तरे वा सत्त्वं कस्मिंश्चिद् देशे काले वा सतोऽन्यत्रासत्त्वं न शक्यते सम्पादयितुं, युक्तिसामान्यात् , अत उभयोर्नियतरूपत्वमेव द्रष्टव्यमित्यद्वैतसिद्धौ विस्तरः, अतः सदेव वस्तु मायाकल्पितासन्निवृत्त्याऽमृतत्वाय कल्पते, सन्मात्रदृष्ट्या च तितिक्षाऽप्युपपद्यत इति भावः" इति ।
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy