SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः ११९ स्वान्यूनसत्ताकतादृशपरिच्छेदशून्यत्वम् , न विद्यते न संभवति, घटत्वा-ऽघटत्वयोरिव परिच्छिन्नत्वा-ऽपरिच्छिन्नत्वयोरेकत्र विरोधात् , नहि दृश्यं किञ्चित् क्वचित् काले देशे वस्तुनि वा न निषिद्ध्यते, सर्वत्राननुगमात् , नवा सद् वस्तु क्वचिद् देशे काले वस्तुनि वा निषिध्यते, सर्वत्रानुगमात्, तथा च सर्वत्रानुगते सद्वस्तुन्यननुगतं व्यभिचारि वस्तु कल्पितं रज्जुखण्ड इवानुगते व्यभिचारि सर्पधारादिकमिति भावः । ननु त्यभिचारिणः कल्पितत्वे सद् वस्त्वपि कल्पितं स्यात् , तस्यापि तुच्छव्यावृत्तत्वेन व्यभिचारित्वादित्यत आह-नाभावो विद्यते सत इति-सदधिकरणकभेदप्रतियोगित्वं हि परिच्छिन्नत्वम् , तच्च न तुच्छव्यावृत्तत्वेन, तुच्छे शशविषाणादौ सत्त्वायोगात् , सदसद्भयामभावो निरूप्यते इति न्यायात् , एकस्यैव स्वप्रकाशस्य नित्यस्य विभोः सतः सर्वानुस्यूतत्वेन सद्वयक्तिभेदानभ्युपगमात् , घटः सन्नित्यादिप्रतीतेः सार्वलौकिकत्वेन सतो घटाधिकरणकभेदप्रतियोगिवायोगात् , अभावः परिच्छिन्नत्वं देशतः कालतो वस्तुतो वा, सतः सर्वानुस्यूतसन्मात्रस्य, न विद्यते न सम्भवति, पूर्ववद्विरोधादित्यर्थः । ननु सन्नाम किमपि वस्तु नास्त्येव, यस्य देश-काल-वस्तुपरिच्छेदः प्रतिषिध्यते, किं तर्हि सत्त्वं नाम परं सामान्यम् , यदाश्रयत्वेन द्रव्य-गुण-कर्मसु सद्वयवहारः, तदेकाश्रययसम्बन्धेन सामान्य-विशेष-समवायेषु, तथा चासतः प्रागभावप्रतियोगिनो घटादेः सत्त्वं कारणव्यापारात् , सतोऽपि तस्याभावः कारणनाशाद् भवत्येवेति कथमुक्तम्-"नासतो विद्यते भावो नाभावो विद्यते सतः" इति, एवं प्राप्ते परिहरति-उभयोरपीत्यर्द्धन, उभयोरपि सदसतोः सतश्चासतश्च, अन्तो मर्यादा नियतरूपत्वं-यत् सत् तत् सदेव, यदसत् तदसदेवेति दृष्टो निश्चितः श्रुति-स्मृति-युक्तिभिर्विचारपूर्वकम् , कैः? तत्त्वदर्शिभिः वस्तुयाथात्म्यदर्शन. शीलब्रह्मविद्भिः, न तु कुतार्किकैः, अतः कुतार्किकाणां न विपर्ययानुपपत्तिः, तु शब्दोऽवधारणे, एकान्तरूपो नियम एव दृष्टो न त्वनेकान्तरूपोऽन्यथाभाव इति, तत्त्वदर्शिभिरेव दृष्टो नातत्त्वदर्शिभिरिति वा, तथा च श्रुतिः- "सदेव सौम्येदमग्र आसीदेकमेवाद्वितीयम्" [ ] इत्युपक्रम्य “ऐतदाम्यमिदं सर्व तत् सत्यं स आत्मा तत्त्वमसि श्वेतकेतो!”[ ] इत्युपसंहरन्ती सदेकं सजातीयविजातीयस्वगतभेदशून्यं सत्यं दर्शयति, “वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्" [ ] इत्यादिश्रुतिस्तु विकारमात्रस्य व्यभिचारिणो वाचारम्भणत्वेनानृतत्वं दर्शयति, "अन्नेन सौम्य ! शुङ्गेनापो मूलमन्विच्छद्भिः
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy