________________
शास्त्रवार्तासमुच्चयः ।
[ प्रथमः
मिति चेत् ? न - सदिदमुदकमिति मरीच्यादावन्यतराभावेऽपि सामानाधिकरण्यदर्शनात्, तस्माद् देहादेर्द्वन्द्वस्य सकारणस्यासतो न विद्यते भाव इति । तथा सतश्च-आत्मनः, अभावः - अविद्यमानता न विद्यते, सर्वत्राव्यभिचारादित्यवोचाम एवमात्मानात्मनोः सदसतोरुभयोरपि दृष्टः - उपलब्धः, अन्तः - निर्णयः, सत् सदेव असदसदेवेति तु अनयोः यथोक्तयोः, तत्त्वदर्शिभिः तदिति सर्वनाम, सर्वं च ब्रह्म, तस्य नाम तदिति, तद्भावस्तत्त्वं ब्रह्मणो याथात्म्यम्, तद् द्रष्टुं शीलं येषां ते तत्त्वदर्शिनस्तैः, तत् त्वमपि तत्त्वदर्शिनां दृष्टिमाश्रित्य शोकं मोहं च हित्वा शीतोष्णादीनि नियतानियतरूपाणि द्वन्द्वानि 'विकारोऽयमसन्नेव मरीचिजलवन्मिथ्याऽवभासत' इति मनसि निश्चित्य तितिक्षस्वेत्यभिप्रायः” । वेदान्तमतरहस्याभिज्ञैर्मधुसूदनसरस्वतीव्याख्या चात्रैवं दृश्यते
M
११८
"ननु भवतु पुरुषैकत्वं तथापि तस्य सत्यस्य जडद्रष्टृत्वरूपः सत्य एव संसारः, तथा च शीतोष्णादिसुखदुःखकारणे सति तद्भोगस्यावश्यकत्वात् सत्यस्य च ज्ञानाद् विनाशानुपपत्तेः कथं तितिक्षा ? कथं वा सोऽमृतत्वाय कल्पते ? इति चेत् ? न - कृत्स्नस्यापि द्वैतप्रपञ्चस्यात्मनि कल्पितत्वेन तज्ज्ञानाद् विनाशोपपत्तेः, शुक्तौ कल्पितस्य रजतस्य शुक्तिज्ञानेन विनाशवत् । कथं पुनरात्मानात्मनोः प्रतीत्यविशेषे आत्मवदनात्माऽपि सत्यो न भवेत् ? अनात्मवदात्माऽपि मिथ्या न भवेत् ? उभयोस्तुल्ययोगक्षेमत्वादित्याशङ्कय विशेषमाह भगवान् यत् कालतो देशतो वा परिच्छिन्नं तदसत् यथा घटादि जन्मविनाशशीलं प्राक्कालेन पर - कालेन च परिच्छिद्यते, ध्वंसप्रागभावप्रतियोगित्वात्, कादाचित्कं कालपरिच्छिन्नमित्युच्यते, एवं देशपरिच्छिन्नमपि तदेव, मूर्तत्वेन सर्वदेशावृत्तित्वात्, कालपरिच्छिन्नस्य देशपरिच्छेदनियमेऽपि देशपरिच्छिन्नत्वेनाभ्युपगतस्य परमाण्वादेस्तार्किकैः कालपरिच्छेदानभ्युपगमाद् देशपरिच्छेदोऽपि पृथगुक्तः, स च किञ्चिद्देश वृत्तिरत्यन्ताभावः, एवं सजातीयभेदो विजातीयभेदः स्वगतभेदश्चेति त्रिविधो भेदो वस्तुपरिच्छेदः, यथा - वृक्षस्य वृक्षान्तराच्छिलादेः पत्रपुष्पादेश्च भेदः, अथवा जीवेश्वरभेदो जीवजगद्भेदो जीवपरस्परभेद ईश्वर जगद्भेदो जगत्परस्परभेद इति पञ्चविधो वस्तुपरिच्छेदः, काल देशा परिच्छिन्नस्याप्याकाशादेस्तार्किकैर्वस्तुपरिच्छेदाभ्युपगमात् पृथङ्गिर्देश:, एवं साङ्ख्यमतेऽपि योजनीयम्, 'एतादृशस्य असतः शीतोष्णादेः कृत्स्नस्यापि प्रपञ्चस्य भावः सत्ता पारमार्थिकत्वं
www