________________
स्तबकः ]
स्याद्वादवाटिकाटीका सङ्कलितः
उक्तार्थो व्यासस्यापि सम्मत इत्याह-यथाSSह व्यासमहर्षिरिति व्यासस्य शिष्टत्वं ख्यापयितुं महर्षित्वेनोपादानम्, ततश्चायमेव शिष्टाभ्युपगम इत्यावेदितं भवति, सप्तमस्य सर्वचरणे लघुत्वं षष्ठस्य च गुरुत्वमित्यनुष्टुभि नियमस्यात्र परित्यागो न दोषाय, आर्षत्वादिति बोध्यम् ॥ ७५ ॥
व्यासवचन मुल्लिखति
नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ ७६ ॥
११७
नासतो विद्यत इति । इदं च पद्यं भगवद्गीतायां द्वितीयाध्याये । इदं च पद्यं वेदान्तदर्शनोपष्टम्भकतया शङ्कराचार्येणेत्थं व्याख्यातम् -
www
mm
wwwwwww
"इतश्च शोक-मोहाव कृत्वा शीतोष्णादिसहनं युक्तम्, यस्मात् नासत इति - असत:- अविद्यमानस्य शीतोष्णादेः सकारणस्य, न विद्यते भावः भवनमस्तिता, नहि शीतोष्णादि सकारणं प्रमाणैर्निरूप्यमाणं वस्तु सद् भवितुमर्हति, विकारो हि सः, विकारश्च व्यभिचरति, यथा घटादिसंस्थानं चक्षुषा निरूप्यमाणं मृद्व्यतिरेकेणानुपलब्धेरसत् तथा सर्वो विकारः कारणव्यतिरेकेणानुपलब्धेरसत्, जन्मप्रध्वंसाभ्यां प्रागूर्ध्वं चानुपलब्धेः कार्यस्य घटादेर्मृदादिकारणस्य तत्कारणस्य च तत्कारणव्यतिरेकेणानुपलब्धेरसत्त्वम् ; तदसत्त्वे सर्वाभावप्रसङ्ग इति चेत् ? न - सर्वत्र बुद्धिद्वयोपलब्धेः - सद्बुद्धिरसद्बुद्धिरिति, यद्विषया बुद्धिर्न व्यभिचरति तत् सत्, यद्विषया व्यभिचरति तदसद्, इति सदसद्विभागे बुद्धितत्रे स्थिते, सर्वत्र द्वे बुद्धी सर्वैरुपलभ्येते समानाधिकरणे नीलोत्पलवत्, सन् घटः सन् पटः सन् हस्तीत्येवं सर्वत्र तयोर्बुद्ध्योर्घटादिबुद्धिर्व्यभिचरति, तथा च दर्शितम्, न तु सद्बुद्धिः, तस्माद् घटादिबुद्धिविषयोऽसन् व्यभिचारात् न तु सद्बुद्धिविषयोऽव्यभिचारात् ; घटे विनष्टे घटबुद्धौ व्यभिचरन्त्यां सद्बुद्धिरपि व्यभिचरतीति चेत् ? न-पटादावपि सद्बुद्धिदर्शनात्, विशेषणविषयैव सा सद्बुद्धिरतोऽपि न विनश्यति; अथ सद्बुद्धिवद् घटबुद्धिरपि घटान्तरे दृश्यत इति चेत् ? न- पटादावदर्शनात् ; सद्बुद्धिरपि नष्टे घटे न दृश्यत इति चेत् ? न - विशेष्याभावात्, सद्बुद्धिर्विशेषणविषया सती विशेष्याभावे विशेषणानुपपत्तौ किंविषया स्यात् ; ननु पुनः सद्बुद्धेर्विषयाभावादेकाधिकरणत्वं घटादिविशेष्याभावे न युक्त
,