________________
११६
शास्त्रवार्तासमुच्चयः ।
[ प्रथमः
भिन्न प्रतियोगि निरूपितत्वेन तद्विशिष्टद्रव्यनिरूपितत्वेन वाऽभिन्नकालता, यथाकुशूलतद्विशिष्टमृन्नाशघटतद्विशिष्ट मृदुत्पाद- मृत्स्थितीनाम्; अत ऐक्यरूपेण द्रव्यादनर्थान्तरभूतत्वम्; इति सम्प्रदायः ।
"
अत्रेदं विविच्यते - उत्पादादय आधारत्वादिवदतिरिक्ता अपि न त्वाद्यक्षणसम्बन्धादिरूपा एव, क्षण एवाभावात्; तेषां च घटत्वादिना प्रतियोगित्वं मृत्त्वादिना चानुयोगित्वम्, इति 'मृदि घट उत्पन्नः' इत्यादिधीः: द्रव्ये तु पर्यायोपहितरूपेण प्रतियोगित्वम्, तत्र चानुयोगितायाः प्रतियोगिन्येव समावेशाद् द्रव्यस्य नानुयोगित्वम्, यथा- 'घटविशिष्टं मृद्द्रव्यमुत्पन्नम्' इति न चात्र विशेषणस्यैवोत्पादो विषयः, विशिष्टस्यैव प्रतियोगित्वानुभवात्; इतरत्रान्वितस्यै घटस्योत्पादेऽन्वयायोगाच्च; न च विशिष्टहेतुकल्पने गौरवम्, घटहेतुनामेव घटविशिष्ट हेतुत्वात्; अत एव क्षणहेतूनामेव क्षणविशिष्ट हेतुत्वात् सर्वत्राविशिष्टवैस्रसिकोत्पादसिद्धिः न चैवं 'ज्ञानमुत्पन्नम्' इतिवत् 'आत्मोत्पन्नः' इति व्यवहारः स्यात्, आत्मत्वेनोत्पादाप्रतियोगित्वे तु 'कम्बुग्रीवादिमानुत्पन्नः' इत्यपि न स्यादिति वाच्यम्, गुरूपस्यापि प्रकारताद्यवच्छेदकत्ववदुत्पादादिप्रतियोगितावच्छेदकस्वात् ; अत एव नित्याऽनित्यत्वव्यवहारयोरप्यसाङ्कर्यम् ; नन्वेवं 'परमाणुर्नित्यः ' इति व्यवहारोऽपि भ्रान्तः स्यात् परमाणोः परमाणुभावेन नाशस्याप्यभ्युपगमात्; अत एवावयवविभागोत्तरं तथोत्पादप्रतिपादनात्, तदुक्तम्
" दव्वंतर संजोगाहि केई दवियस्स बेंति उप्पायं । उप्पायत्थाऽकुसला विभागजायं ण इच्छंति ॥ अणु-दुअणुएहिं दव्वे आरडे तिअणुअं ति ववएसो । ततो अ पुण विभत्तो अणु त्ति जाओ अणू होइ ॥ [सम्मतिगाथा- १३५,१३६ ] " इति ।
www
[ " द्रव्यान्तरसंयोगेभ्यः केचिद् द्रव्यस्य ब्रुवन्त्युत्पादम् । उत्पादार्थाsकुशूला विभागजातं नेच्छन्ति ॥
अणुद्व्यणुकैर्द्रव्ये आरब्धे त्र्यणुकमिति व्यपदेशः ।
ततश्च पुनर्विभक्तोऽणुरिति जातोऽणुर्भवति ॥”] इति संस्कृतम् ।
"
युक्तं चैतत् प्राक् परमाणुतासत्त्वे स्थूलकार्याभावप्रसङ्गात्; इति चेत् ? नव्यावहारिक नित्यतालक्षणे समुदयविभागरूपस्यैव व्ययस्य प्रवेश्यत्वादिति" इति ।