________________
]
स्याद्वादवाटिकाटीकासङ्कलितः
निरुपादानमेव चैतन्यमुपजायत इति न चैतन्योपादानतयाऽऽत्मसिद्धिरित्यत
स्तबकः
आह
न तथाभाविनं हेतुमन्तरेणोपजायते । किञ्चिन्नश्यति चैकान्ताद्, यथाऽऽह व्यासमहर्षिः ॥ ७५ ॥
११५
wwwm
नेति । तथा कार्यरूपतया, भाविनं भवनस्वभावम्, हेतुमन्तरेण उपादानकारणं विना, न किञ्चिदुपजायते नैवोत्पद्यते किमपि, तथाभवनस्वभाववस्तुलक्षणपरिणामप्रयुक्तद्रव्यावस्थाविशेषरूपत्वात् तथाभावि परिणामस्य, न चावस्थाविशेषरूपपरिणामोऽवस्थावद्द्रव्यात्मकपरिणामिनमन्तरेण सम्भवति, यस्य तथाभावि परिणामलक्षणावस्था तदेवोपादानकारणम् । यथा तथाभावि परिनामोत्पादो नोपादानकारणमन्तरेण सम्भवति तथा तद्विनाशोऽपि नोपादानकारणमन्तरेण सम्भवतीत्याह - नश्यति चैकान्तादिति - ' न किञ्चिद्' इत्यस्यात्रापि सम्बन्धः, एकान्ताद् द्रव्यपृथग्भावेन, किश्चित् किमपि न नश्यति यतस्तद्विनाशस्तदुत्तरद्रव्यावस्थारूपपरिणाम एव; न च द्रव्यमेव कार्यरूपतया भवति कार्योत्तरावस्थारूपेण परिणमत इत्युत्पाद - विनाशौ द्रव्यमेव, न तु तद्व्यतिरिक्ताबुत्पाद- विनाशौ स्यातामिति वाच्यम्, तयोर्द्रव्यात् कथञ्चिद्भिन्नत्वस्याप्यभ्युपगमात्, तदिदमाह सम्मतौ सिद्धसेनदिवाकरो वादिप्रकाण्डः
mm
99
" तिणिवि उप्पायाई अभिन्नकाला य भिन्नकाला य । अत्यंतरं अणत्यंतरं च दवियाहि णायव्वा ॥ गा० १३२ । [ त्रयोऽप्युत्पादादयोऽभिन्नकालाश्च भिन्नकालाश्च । अर्थान्तरमनर्थान्तरं च द्रव्येभ्यो ज्ञातव्याः ॥ ] इति संस्कृतम् ।
उत्पादादयो यदि भिन्नकालाः कथमभिनकालाः ?, एवं यदि द्रव्येभ्योऽर्थान्तरभूताः कथमनर्थान्तरभूताः ? इति शिष्यजिज्ञासोपशान्तये किश्चिद्विशेषावगतये च न्यायविशारदीयैतद्वयाख्यैवोल्लिख्यते
"
“अन्त्रैकप्रतियोगिनिरूपितत्वेन तद्विशिष्टद्रव्यनिरूपितत्वेन वोल्पाद-स्थितिविगमानां भिन्नकालता, यथा घटोत्पादसमये, घटविशिष्टमृदुत्पादसमये वा न तद्विनाशः, अनुत्पत्तिप्रसक्तेः; नापि तद्विनाशसमये तदुत्पत्तिः, अविनाशप्रसक्तेः, न च तत्प्रादुर्भाव समय एव तत्स्थितिः, तद्रूपेणावस्थितस्यानवस्थाप्रसक्त्या प्रादुवायोगात् ; अतो द्रव्यादर्थान्तरभूतास्ते, अनेकरूपाणामेकद्रव्यरूपत्वायोगात् ;