SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ ११४ शास्त्रवार्तासमुच्चयः । [ प्रथमः एतदेव फलितमुपदर्शयति - I इत्थं न तदुपादानं, युज्यते तत् कथञ्चन । अन्योपादानभावे च तदेवात्मा प्रसज्यते ॥ ७४ ॥ इत्थमिति-उक्तप्रकारेणेत्यर्थः । नेत्यस्य 'युज्यते ' इत्यनेन सम्बन्धः । तदुपादानं सुतचैतन्योपादानम् । तत् मातृशरीरम् । कथञ्चन केनापि प्रकारेण न युज्यते न घटते । अन्योपादानभावे च मातृशरीरातिरिक्तसुतचैतन्योपादानसद्भावे च । तदेव भूतातिरिक्तोपादानमेव आत्मा, प्रसज्यते चार्वाकस्यापद्यते । ननु यद्वृद्धि-विकाराभ्यां यद्वृद्धि-विकारौ तत् तस्योपादानम्, यथाँ दुग्धादिवृद्धि-विकारतो दध्यादिवृद्धि-विकारभावाद् दुग्धादिकं दध्याद्युपादानम्, शरीरवृद्धि-विकारतश्चैतन्यवृद्धि विकारदर्शनाच्चैतम्यस्य शरीरमुपादानमिति चेत् ? न-अजगरादिशरीरवृद्धितस्तत्र चैतन्यवृद्धेः सात्त्विकादिपुरुषधौरेयस्य तपउपवासादिना शरीरह्रासतश्चैतन्यहासस्य चाभावेन व्यभिचारात्, यत्रापि क्वचित् पुरुषे शरीरवृद्धि-विकारतश्चैतन्यवृद्धि विकारौ दृश्येते तत्रापीन्द्रियपाटवा-पाटवाभ्यां सहकारिणः शरीरस्य वृद्धि-विकारयोश्चैतन्यवृद्धि विकारसम्भवात्, अतः एव जन्मान्धादेः शरीरस्य वृद्धावपि चक्षुरिन्द्रियपाटवाभावे न चाक्षुषज्ञानवृद्धिः, एवं बधिरादेरपीति । नन्वस्तु इन्द्रियाण्येवाऽऽत्मा, तत्पाटवा ऽपाटवाभ्यां चैतन्य पाटवा - Sपाटवयोर्दर्शनादिति चेत् ? न-विकल्पासहत्वात्, मिलितानामिन्द्रियाणां ज्ञानाद्याश्रयत्वे चक्षुराद्येकै केन्द्रिय विकलस्यापि त्वाचादिज्ञानानुदयः स्यात्, यत्किञ्चिदिन्द्रियस्य प्रतिनियतस्य ज्ञानाद्याश्रयत्वे तद्विकलस्य किमपि ज्ञानं न स्यात्, चाक्षुषज्ञानस्य चक्षुराश्रयः, त्वाचज्ञानस्य त्वगाश्रय इत्येवं तत्तदिन्द्रियजन्यज्ञानस्य तत्तदिन्द्रियमाश्रय इत्येवमुपगमे, एकत्र शरीरे नानाssत्मानः प्रसज्यन्त इति चाक्षुषज्ञानाश्रय-स्पार्शनज्ञानाश्रययोरात्मनोर्भेदाद् 'योऽहं स्पृशामि सोऽहं पश्यामि' इति स्पार्शन- चाक्षुषप्रत्यक्षोभयाश्रयतयैकात्मावगाहिप्रतीत्यनुत्पत्तिः, अनुभव - स्मरणयोः सामानाधिकरण्यप्रत्यासत्त्या कार्यकारणभावाद् यत्रैवानुभवस्तत्रैव स्मरणमिति नियमेन चक्षुषा दृष्टस्य वस्तुनोऽनुभवि - तुश्चक्षुषो नाशे तदननुभविनाऽन्येनेन्द्रियेण स्मरणानुपपत्तिश्च । चक्षुरादिजन्यनानाज्ञानानामेकमेव नित्यमिन्द्रियमाश्रय इत्यभ्युपगमे त्वात्मन एवेन्द्रियतेति नामान्तरकरणमिति संज्ञामात्र एव विवादः परीक्षकैरुपेक्ष्य इति ॥ ७४ ॥
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy