SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः ११३ रसायनाडुपयोगे समानेऽपि कस्यचित् क्वचिद् विषय एव प्रज्ञामेधादिकमिति प्रतिनियमो न भवेत् , रसायनाडुपयोगस्योभयत्र तुल्यत्वात् , तथा च पूर्वपूर्वजन्माभ्यासप्रकर्षत एव प्रज्ञामेधादिप्रकर्ष इति पूर्वापरभवानुगाम्येवाऽऽत्मा चैतन्यं प्रत्युपादानं न तु मातृचैतन्यं सुतचैतन्यं प्रत्युपादानमिति । ननु प्रत्यक्षं प्रतीन्द्रियसन्निकर्षस्यानुमित्यादिकं प्रति लिङ्गज्ञानादीनां विशिष्य हेतुत्वस्यावश्यकतया तत एव निर्वाहे ज्ञानं प्रति सामान्यतो ज्ञानस्य हेतुत्वे मानाभाव इति चेत् ? न-तत्तज्ज्ञानविशेषकारणाभावकूटस्य सुषुप्तौ ज्ञानानुत्पत्तिप्रयोजकत्वकल्पनापेक्षया ज्ञानाभावस्यैव तत्प्रयोजकत्वे लाघवमिति कारणाभावस्यैव कार्याभावप्रयोजकत्वमिति ज्ञानलक्षणोपयोगस्य ज्ञानहेतुत्वसिद्धेरिति ॥ ७२ ॥ मातृचैतन्यस्य सुतचैतन्यजनकत्वे दोषान्तरमप्याह न च संस्खेदजायेषु, मात्रभावेन तद् भवेत् । प्रदीपज्ञातमप्यत्र, निमित्तत्वान्न बाधकम् ॥ ७३ ॥ न चेति । संखेदजायेषु संस्वेदजाः-यूकाद्याः, आदिपदात् कृमि-दंशादीनामुपग्रह, तेषु; मात्रभावेन स्वजनकस्त्रीशरीराभावेन, तत् चैतन्यम् , अनुभवसिद्धस्य तस्यापलापः कर्तुं न शक्यते, भवेदित्यत्र न चेत्यस्यान्वयान्नैव स्यात् , तथा च मातृशरीराभावेऽपि यूकादिषु चैतन्यस्य भावेन व्यतिरेकव्यभिचारान मातृशरीरं चैतन्यं प्रति निमित्तकारणमपीत्यभिसन्धिः । यतो निमित्तकारणमपि मातृशरीरं न भवति तत एव प्रदीपज्ञातमपि प्रदीपनिदर्शनमपि, यथा दीपाद् दीपान्तरं ततोऽपि दीपान्तरमित्येवमानिर्वाणाद् दीपसन्ततिर्भवति तथा मातृचैतन्यात् सुतचैतन्यमाद्यं ततो द्वितीयसुतचैतन्यं ततस्तृतीयादिसुतचैतन्यमित्येवं चैतन्यसन्ततिरित्येवं निदर्शनमपि । अत्र प्रकृते चैतन्ये । निमित्तत्वात् प्रदीपस्य प्रदीपान्तरं प्रति निमित्तकारणत्वात् , न बाधकं चैतन्यस्य चैतन्यं प्रति निमित्तकारणत्वाभावान पृथगात्मसिद्धिप्रतिकूलम्, चैतन्यं प्रति चैतन्यमेवोपादानकारणमिति चैतन्योपादानकारणतयैवातिरिक्ताऽऽत्मनः सिद्धिरभिमताsस्माकम् , यथा च शरीरविशेष मातृशरीरस्य निमित्तकारणत्वं तथा चैतन्यविशेषे मातृशरीरस्य निमित्तकारणत्वमित्यस्य संभवेऽपि सामान्यतश्चैतन्यं प्रति उपादानत्वं यत् कल्पयितुमिष्टं तद् मातृशरीरस्य सुतचैतन्योपादानत्वं संस्वेदजादिषु व्यभिचारान्न संभवतीत्यात्मैव सामान्यतश्चैतन्योपादानमिति ॥ ७३ ॥ ८ शास्त्र०स०
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy