________________
शास्त्रवार्तासमुच्चयस्य
अङ्काः
विषयाः
पत्र-पती ८८ संभावनयैव परकीयसंशयादिकमवगत्य तन्निवृत्त्यर्थं परार्थ वाक्यो
चारणं सम्भवतीति न तदर्थमनुमानप्रमाणाभ्युपगमः। ४१-१८ . संशयरूपसंभावनातः प्रवृत्तेरुपगमे धूमदर्शनात् प्रागपि वह्निसंशयात् प्रवृत्तिः स्यादित्याशङ्याया उत्कटकोटिकसंशयस्यैव संभाव
नारूपतया तदभावान्न तदानीं प्रवृत्त्यापत्तिरिति प्रतिविधानम् । ४१-२६ ९० विशेषाभावाभूमदर्शनोत्तरकालीनवह्निसंशयस्य नोत्कटकोटिकत्वमिति प्रश्नप्रतिविधानम् ।
४२-२ अनुमानं न प्रमाणमिति भवतो वाक्यं प्रमाणमप्रमाणं वेति विकल्प्य चार्वाकं प्रति दूषणाशयाया निराकरणम् ।
४२-९ ९२ ज्ञानप्रामाण्यस्य न स्वतो ग्राह्यत्वं, किन्तु परतो ग्राह्यत्वं, तथा च ।
प्रत्यक्षप्रामाण्यग्रहणायानुमानमप्युपेयमिति प्रश्नप्रतिविधानम्। ४२-१९ निर्विकल्पकवत् तद्गतसन्मात्रावलम्बनत्वादिकमपि स्वसंवेदनसिद्धमेव तत्स्वरूपत्वादित्युपदर्शितम् ।
४३-३ ९४ शब्दोऽपि न प्रमाणं, वासना च पूर्वपूर्वविकल्पप्रभवस्तत्समानो
ऽसदर्थविषयक उत्तरोत्तरविकल्प एव, विकल्पयोनयः शब्दा इति बौद्धवचनमेतन्मतोपोद्वलकम् ।।
४३-९ खागमस्य प्रामाण्याभावश्चार्वाकस्येष्ट एव, परं प्रति पर्यनुयोगपरत्वेन सार्थक्यं, तत्र स्वसिद्धान्तवचनसंवादः ।
४३-२४ चार्वाकमतखण्डनप्रवणं जैनमतम् , अचेतनभूतधर्मफलभिन्ना चेतना यस्य धर्मः स एवात्मेति प्ररूपकमेकत्रिंशत्तमपद्यम् । ४४-५ चैतन्यस्य भेदसम्पृक्ताभेदलक्षणाविष्वग्भावसम्बन्धेनैव भूतत्तित्वप्रतिषेधकं न तद्धर्म इति, तेन नैयायिकमत इव जैनमतेऽव्याप्यवृत्तेर्ज्ञानस्यावच्छेदकतया शरीरवृत्तित्वेऽपि न क्षतिरित्युपदिष्टम् ।
४४-१० चेतनाया भूतधर्मत्वाभावादेव भूतोपादेयत्वलक्षणं भूतफलत्वं नेत्युपपादितम्।
४४-१९ ९९ चेतनाया अस्तित्वं व्यवस्थापितम्। ..
४४-२३