________________
१०६ शास्त्रवार्तासमुच्चयः।
[प्रथमः योरुपलम्भात् तयोः सद्भावेऽपि लावण्यस्यानुपलम्भाच तत्सनावः, तदा स लावण्यसद्भावः, तन्मात्रहेतुको न देहमात्रनिमित्तको न, देहमात्रनिमित्तकत्वे देहमात्रनिमित्तका देहरूपादयो यथा मृतदेहे वर्तन्ते, तबाशादेव च नश्यन्ति, तथा लावण्यमपि तत्र स्यादेव, तन्नाशादेव नश्येत् , यद्यपि किमपि कार्य नैककारणमात्रप्रभवं 'सामग्री वै जनिका' इति नियमादिति न देहरूपादीनामपि देहमात्रप्रभवत्वम् , सहभाविनो गुणा इत्यभ्युपगन्तृस्याद्वादिमते रूपादिना सहैव देहस्य समुत्पत्तिर्न तु पूर्वक्षणे रूपादिरहितो देहः समुत्पद्यते, तदनन्तरक्षणे तत्र रूपादयः समुत्पद्यन्त इत्यभ्युपगमो येन देहकारणकत्वमपि देहरूपादीनां भवेत् , तथा च देहेतरकारणकत्वाभावे सति देहकारणकत्वं स्वरूपत एवाप्रसिद्धम् , तथापि प्रकृते तन्मात्रहेतुकत्वं तत्सामग्रीसमनियतसामग्रीकत्वं विवक्षितम् , नैयायिकादिमते निर्गुणं द्रव्यमुत्पद्यते, तदनन्तरक्षणे गुणास्तत्र भवन्तीत्येवंस्वरूपे तत्सामग्रीत्यनेन तटिता सामग्री विवक्षिता तत्समनियता सामग्री सैव स्वस्यापि वसमनियतत्वं सम्भवत्येव तत्कत्वं तत्प्रभवत्वपर्यवसितं देहादिघटितकारणकूटात्मकसामग्रीप्रभवे देहरूपादौ समस्ति, स्याद्वादिमते यदा देहोत्पादिका सामग्री तदा तद्रूपाद्युत्पादिका सामग्री, कार्ययोह-तद्रूपाद्योः कथञ्चिद्भेदात् तत्सामग्योरपि कथञ्चिद्भेदे समनियतत्वं समस्त्येव, तत्सामग्रीपदेन तदुत्पादकसामग्री विवक्षितेति देहोत्पादकसामग्रीसमनियतसामग्रीप्रभवत्वं तद्रूपादौ समस्तीति बोध्यम् । ननु देहगतलावण्ये देहोऽपि कारणं तदन्यदपि कारणम् , तञ्च कारणं मृतावस्थायां देहादपगच्छति ततो लावण्यमप्यगच्छतीत्यत्राह-अत एवेति-यदभावान्न तदा लावण्यं तदात्मसंयोगविशेषस्वरूपमेव, तद्वशादेव च शरीरेऽवच्छेदकतया चैतन्यमपि, तथा च मृतावस्थायां लावण्याभाववच्चैतन्याभावस्यापि अन्याभावप्रयोज्यत्वादेवेत्यर्थः, अन्यसद्भावात् लावण्याभावचैतन्याभावप्रयोजकाभावप्रतियोगिनः शरीरव्यतिरिक्तस्य सद्भावात् , अस्त्यात्मा य एतादृशः पदार्थः स शरीरव्यतिरिक्तश्चैतन्योपादानभूत आत्मपदार्थोऽस्ति, इति एवम् , व्यवस्थितं सिद्धम् ॥ ६७ ॥
ननु मृतदेहे चैतन्याभावे प्राणाभाव एव प्रयोजक इति पराकूतमाशय प्रतिक्षिपति
न प्राणादिरसौ मानं, किं तद्भावेऽपि तुल्यता । तदभावादभावश्चेदात्माभावे न का प्रमा॥ ६८॥