SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ सावकः 5:] स्याद्वादवाटिकाटीका सङ्कलितः 1 " नेति -'प्राणादिः' इत्यत्राऽऽदिपदात् परिणामविशेषपरिग्रहः । असौ मृतदेहे चैतन्याभावप्रयोजकीभूताभावस्य प्रतियोगी । चैतन्याभावप्रयोजकीभूताभावप्रतियोगी प्राणादिर्न, किम्त्वात्मेत्यत्र किं मानमिति परस्य पृच्छा । उत्तरवादी प्रतिबन्योत्तरयति-तद्भावेऽपि तुल्यतेति प्राणादेरिति शेषः तथा च प्राणादेचैतन्याभावप्रयोजकाभावप्रतियोगित्वेऽपि किं मानमित्यर्थः । पर आह- तदभावादभावश्चेति- तदभावादित्यनन्तरं चैतन्यस्येति शेषः, प्राणाद्यभावाञ्चैतन्यस्याभाव इति यदि प्राणादेश्चैतन्याभावप्रयोजकाभावप्रतियोगित्वे मानं त्वयेष्यत इत्यर्थः तथा च प्राणादेश्चैतन्यं प्रति कारणत्वे सत्येव प्राणाद्यभावस्य चैतन्या - भावप्रयोजकत्वमिति मृतदेहे चैतन्याभावान्यथानुपपत्त्या प्राणाद्यभावसिद्धिवत् जीवच्छरीरे चैतन्यान्यथानुपपत्त्या प्राणादिसद्भावः सिद्ध्यतीत्येवमन्यथानुपपत्तिर्यथा तव मानं तथा जीवच्छरीरे चैतन्यान्यथानुपपत्त्याऽऽत्मसद्भावो मृतदेहे चैतन्याभावान्यथानुपपत्त्याऽऽत्माभाव इति तत्राप्यन्यथानुपपत्तिः प्रमाणं समस्त्येवत्युत्तरवादी आह- आत्माभावे न का प्रमेति - 'आत्माभावे' इत्यस्यानन्तरं ‘चैतन्यस्याभावः' इत्यनुषज्यते 'न' इत्यनन्तरं च ' इत्यत्र च ' इति शेषः, तथा च आत्माभावे चैतन्यस्याभावो न इत्यत्र च का प्रमा? किं प्रमाणं ? न किञ्चित् प्रमाणमित्यर्थः, यथा च प्राणाद्यभावे चैतन्याभाव इत्यत्रान्यथानुपपत्तिः प्रमाणं तथा आत्माभावे चैतन्याभाव इत्यत्राप्यन्यथानुपपत्तिः प्रमाणमस्त्येव, प्रमाणस्य चैकस्योभयत्र सत्त्वेऽप्येकत्र तत् प्रमाणं नान्यत्रेत्यस्य वक्तुमशक्यत्वादिति भावः ॥ ६८ ॥ १०७ प्राणादिसत्त्वे चैतन्यसत्त्वं प्राणाद्यभावे चैतन्याभाव इत्यन्वयव्यतिरेकयोः कारणताग्राहकयोः : सत्त्वात् ताभ्यां कारणत्वेन क्लृप्तस्य प्राणादेः चैतन्याभावप्रयोजकाभावप्रतियोगित्वं कल्पयितुमुचितमिति पराकूतमाशङ्क्य प्रतिक्षिपति तेन तद्भावभावित्वं, न भूयो नलिकादिना । सम्पादितेऽप्यतत्सिद्धेः, सोऽन्य एवेति चेन्न तत् ॥६९॥ तेनेति-सहार्थे तृतीया । तद्भावभावित्वं तौ भावौ अन्वयय-व्यतिरेकौ तद्भावित्वं तत्प्रतियोगित्वम्, तत्र मानमिति शेषः, तथा च प्राणादिना सह चैतन्यस्यान्वयव्यतिरेकप्रतियोगित्वं प्राणादेश्चैतन्याभावप्रयोजकी भूताभावप्रतियोगित्वे मानमित्यर्थः, स्वान्वय- व्यतिरेकनियतान्वयव्यतिरेकप्रतियोगिचैतन्य कत्वेन
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy