________________
१०५
स्तबकः] स्थाद्वादवाटिकाटीकासङ्कलितः कृतम्- "अवष्टब्धेष्वपीति-अवयविनाऽवष्टब्धेष्वपीत्यर्थः, पाकः-रूपादिपरा. वृत्तिः, न विरुद्ध्यत इति-साक्षात्परम्परासाधारणसकलावयवावच्छेदेन तेजस्सं. योगस्य रूपादिनाशहेतुत्वे मानाभावेनानारम्भकसंयोगावच्छेदेन विजातीयतेजःसंयोगादेव रूपादिनाशसम्भवेऽप्यारम्भकसंयोगावच्छेदेन तेजस्संयोगस्याभिघातादेस्तदानीं तत्र सद्भावे मानाभावेन पूर्वोक्तरीत्याऽवयविनाशस्याप्रसक्तः, सर्वावयवावच्छेदेन तेजःसंयोगस्य रूपादिनाशकत्वेऽपि नाशकतावच्छेदकवैजात्यस्य नोदनत्वाभिघातत्वादिविरुद्धस्यैवाङ्गीकरणीयतया नोदनाभिघातभिन्नतेजस्संयोगाद् रूपादिनाशेऽपि तेनावयविनाशस्यासम्भवात् , अस्तु वा रूपादिनाशकताऽवच्छेदकवैजात्यस्य नोदनाभिघातत्वव्याप्यत्वम् , तथाऽप्यवयव्यभिघातादिकालेऽवयवाभिघातोत्पादनियमे मानाभावः, आस्तां वा तथा नियमः, तथाप्यवयवाभिघातादेनियमतो द्रव्यारम्भकसंयोगविरोधिविभागहेतुक्रियाजनकत्वे मानाभाव एव, विभागं प्रति क्रियायास्तत्तद्वयक्तित्वेनैव हेतुतया तत्तक्रियाऽधीनविभागं प्रति. तत्तत्पूर्वदेशस्य विशिष्य हेतुतया च तजन्यक्रियायास्तादृशविभागहेतुत्वासिद्धरिति भावः, यदप्युक्तं वैशेषिकैः-अवयविरूपं प्रत्यवयवरूपहेतुताया व्यभिचारापत्त्या. नावयविनि पाकेन रूपोत्पाद इति, तदपि न-अवयवरूपादेर्विजातीयरूपादिकं प्रत्येव हेतुतया व्यभिचाराप्रसक्तः, एतेनावयविरूपनाशे आश्रयनाशहेतुतायां व्यभिचारापत्त्या पाकेनावयविरूपनाशासम्भव इत्यप्यपास्तम् , आश्रयनाशजन्यतावच्छेदककोटौ वैजात्यस्य निवेशनीयत्वादिति । अवयविपाकानभ्युपगमे साधकाभावमुक्त्वा तत्र बाधकमप्याह-अनन्तेति । इत्थं च-अवयविनाशानङ्गीकारे च, प्रत्यभिज्ञा सङ्गच्छत इति पूर्वावयविनाशे तूत्तरोत्पन्नावयवि-पूर्वावयविनोरभेदाभावेनाभेदावगाहिनी प्रत्यभिज्ञा न स्यादिति भाव इति” [दिनकरी] परमाणुपर्यन्तनाशाभ्युपगमो वैशेषिकस्यायुक्त इत्यावेदनायोपाध्यायैरप्युक्तम्"तद्देशत्व-तत्सङ्ख्या-तत्परिमाणोपर्यवस्थापितकर्पराद्यपातप्रत्यक्षोपलभ्यत्वाभावापत्तिभिया तत्र परमाणुपर्यन्तनाशानभ्युपगमात्" इति, इत्येवमसिद्धिमाशङ्कय परिहरति
न चेल्लावण्यसद्भावो, न स तन्मात्रहेतुकः ।
अत एवान्यसद्भावादस्त्यात्मेति व्यवस्थितम् ॥ ६७ ॥ न चेदिति । चेत्-यदि । लावण्यसद्भावो न मृतदेहे कार्कश्य-श्यामत्व