SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १०४ शास्त्रवार्तासमुच्चयः। [प्रथमः विनष्टेषु स्वतन्त्रेषु परमाणुषु पाकः, पुनश्च पक्कपरमाणुसंयोगाद् द्वयणुकादिक्रमेण पुनर्महावयविपर्यन्तमुत्पत्तिः, तेजसामतिशयितवेगवशात् पूर्वव्यूहनाशो झटिति व्यूहान्तरोत्पत्तिश्च [ मुक्तावली-का० ] इति, व्याख्यातं चेदमित्थं दिनकरेण"पाको न संभवतीति-रूपादिपरावृत्तिफलकस्तेजःसंयोगो न संभवतीत्यर्थः, रूपपरावृत्तिर्न संभवतीति यावत् , रूपादिनाशं प्रति साक्षात्परम्परासाधारणसर्वांवयवावच्छेदेन तेजःसंयोगस्य हेतुतयाऽवयविनाऽवष्टब्धेष्वयवेषु सत्सु अवयविनि रूपादिनाशो न संभवति, तद्धेतोः सर्वावयवावच्छेदेन तेजःसंयोगस्याभावादिति भावः; न च विद्यमानेऽपि घटादौ सर्वावयवावच्छेदेन तेजःसंयोगः कुतो नोत्पद्यत इति वाच्यम् , तथा सत्यारम्भकसंयोगावच्छेदेनावयविनि तेजःसंयोगोत्पादकाले तदवच्छेदेनावयवेष्वपि नोदना-ऽभिघातयोरन्यतरस्योत्पादनियमेनावयवेषु विभागहेतुक्रियोत्पादेनारम्भकसंयोगनाशादवयविनाशापत्तेः; न चावयवेषु तेजोऽभिघातानन्तरं पञ्चमक्षण एवावयविनाशसंभवेन तत्पूर्वमवयविनि रूपादिनाशोत्पादाभ्युपगमे बाधकाभाव इति वाच्यम् । तत्र पूर्वावयविनाशाऽवयव्यन्तरोत्पादयोरावश्यकत्वात् पूर्वावयविनि रूपादिपरावृत्तिजनकविजातीयतेजस्संयोगस्य मानाभावेनाकल्पनात् , अवयविरूपनाशे आश्रयनाशस्य हेतुत्वात् , पाकाजन्यत्वस्य कार्यतावच्छेदककोटौ प्रवेशे गौरवादवयविनाशं विना पाकेनावयविरूपनाशासम्भवादवयविनीलादाववयवनीलादेर्हेतुतायां व्यभिचारापत्त्या पाकेनावयविनि नीलाद्युत्पादासम्भव इत्यभिमानः । अवयविषु विनष्टेष्विति-घटाद्यारम्भककपालादिपरमाणुपर्यन्तेष्वग्निसंयोगेन पूर्वोक्तरीत्या घटादिद्वयणुकपर्यन्तेषु नाशसंभवादिति भावः, स्वतन्त्रेषु-कार्यद्रव्यध्वंसविशिष्टेषु । ननु तत्र संस्थानभेदादिः कथं न प्रतीयते इत्यत आह-तेजसामितीति" [दिनकरी- ] इति वाच्यम् , एवमपि परमाणुसद्भावेऽपि परमाणुधर्मकार्यभूतपाकजरूपादीनामभावादुक्तनियमोऽसिद्धः परमाणुपाकजरूपादिना व्यभिचारात् स्यादेव, वस्तुतोऽवयविष्वपि पाको नैयायिकसम्मत आदरणीयः, तदाशय इत्थमुपदर्शितो विश्वनाथेन, "तेषामयमाशयः-अवयविनां सच्छिद्रत्वाद् वह्नेः सूक्ष्मावयवैरन्तःप्रविष्टैरवयवेष्ववष्टब्धेष्वपि पाको न विरुध्यते, अनन्तावयवि-तन्नाशकल्पने गौरवम् , इत्थं च सोऽयं घट इत्यादिप्रत्यभिज्ञा सङ्गच्छते, यत्र तु न प्रत्यभिज्ञा तत्रावयविनाशोऽपि स्वीक्रियत इति" [मुक्तावली-का० ] एतद्व्याख्यानं दिनकरेणेत्थं M
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy