________________
सबकः] स्याद्वादवाटिकाटीकासकलितः
१०३ मुपलभ्येत देहधर्मत्व-देहकार्यत्वाभ्यां तदा तत् चैतन्यम् , तद्धर्मादि आदिपदात् तत्कार्यपरिग्रहः, शरीरधर्मभूतं शरीरकार्य च भवितुमर्हति, अन्यथा मृतदेहे देहधर्मत्व-देहकार्यत्वाभ्यां चैतन्यस्यानुपलम्भे, योग्यानुपलब्ध्याsभावोऽवसीयत इति योग्यस्य सतश्चैतन्यस्य तदानीमनुपलम्भादभाव एव स्यात् , तथा च न सान्निध्यात् तद्धर्मादीति सम्बध्यते, तथा च चैतन्यं शरीरधर्मभूतं शरीरकार्यभूतं च न, मृतावस्थायां शरीरभावेऽपि तस्याभावात् , यथा शरीरभावेऽपि तत्रासत् घटत्व-घटरूपादि न देहधर्मभूतं न देहकार्य चेति ॥६५॥
'यद् यद्धर्मवत्कार्यभूतं न तत् तद्भावे न भवति' इति नियम एव व्यभिचारान संभवतीत्याशङ्कय समाधत्ते
न च लावण्य-कार्कश्य-श्यामत्वैर्व्यभिचारिता।
मृतदेहेऽपि सद्भावादध्यक्षेणैव संगतेः ॥६६॥ न चेति । लावण्य-कार्कश्य-श्यामत्वैः शरीरधर्मकार्यैः, व्यभिचारिता मृतदेहसत्त्वेऽपि तत्र तदानीं लावण्यादीनामभावाद् व्यभिचारिता-यद् यद्धमादिकं न तत् तद्भावे न भवतीति नियमाभावः, इति न च। तत्र हेतु:-मृतदेहेऽपि सद्भावादिति-लावण्यादीनां मृतदेहेऽपि भावादित्यर्थः । मृतदेहे लावण्यादीनां किं प्रमाणमित्यपेक्षायामाह-अध्यक्षेणैव संगतेरिति-प्रत्यक्षप्रमाणेनैव मृतदेहे लावण्यादीनां परिच्छेदात् , विषयतया प्रत्यक्षं प्रति तादात्म्य. सम्बन्धेन कार्यसहभावेन विषयस्य कारणत्वेन तदानीं लावण्यादिलक्षणविषयाभावे तद्विषयकप्रत्यक्षमेव न स्यादिति प्रत्यक्षान्यथानुपपत्त्या लावण्यादयस्तदानीं तत्र सन्तीति भावः ॥ ६६ ॥
ननु मृतदेहे रूपमात्रमुपलभ्यते न तु बलवद्धातूपग्रहप्रभवं लावण्यादि, किञ्च, घटादेः पाकात् पूर्व सद्भावेऽपि तद्धर्मतत्कार्यभूतं पाकजरूपादिकं तदानीं नास्तीति पाकजरूपादिना व्यभिचारादुक्तनियमोऽप्यसिद्धः न चापक्वघटादिनाशे सत्येव पक्वघटादिरन्य उत्पद्यते, तत्र पाकजरूपादयो न विद्यन्ते किन्तु कारणरूपादिप्रभवा एव रूपादयस्तत्र । पिल्वपाकवादिनो वैशेषिकाः परमाणुष्वेव पाकाद्रूपादिपरावृत्तिमुशन्ति नावयविषु, तेषामाशय इत्थं विश्वनाथेनावेदित:"अवयविनाऽवष्टब्धेष्ववयवेषु पाको न संभवति, परन्तु वह्निसंयोगेनावयविषु