________________
१०२ शास्त्रवार्तासमुच्चयः।
[प्रथमः द्भूतरूपवत्समवेतसमवायत्वेन चक्षुस्संयुक्तसमवेतसमवायस्य च समिकर्षवं वाच्यम् , तथा च त्रसरेणौ चक्षुस्संयुक्तमहदुद्भूतरूपवत्समवायस्य चक्षुस्संयुक्तमहदुद्भूतरूपवत्समवेतसमवायस्य चाभावात् ताभ्यां तत्प्रत्यक्षं नोत्पत्तुमर्हतीति संयोगस्य पृथक् प्रत्यासत्तित्वकल्पनमावश्यकमिति वाच्यम् , द्रव्यवृत्तिलौकिकविषयतासम्बन्धेन प्रत्यक्षं प्रति समवायेन महत्त्वोद्भूतरूपयोर्द्रव्यसमवेतवृत्तिलौकिकविषयतासम्बन्धेन प्रत्यक्षं प्रति तयोः स्वसमवायिसमवेतत्वसम्बन्धेन च स्वातन्त्र्येणैव कारणत्वस्य कल्पनात् , द्वयणुके महत्त्वोद्भूतरूपयोः समवायेनाभावादेव न प्रत्यक्षम् , परमाणुरूपे च महत्त्वोद्भूतरूपयोः स्वसमवायिसमवेतत्वसम्बन्धेनाभावादेव च न तत्प्रत्यक्षमिति संयोगस्य पृथक् प्रत्यासत्तित्वाकल्पनेऽपि चक्षुस्संयुक्तद्वयणुकसमवायादेव त्र्यणुकस्य प्रत्यक्षमुपपत्स्यते, तत्र च महत्त्वोद्भूतरूपे अपि समवायसम्बन्धेन वर्तेत इति; प्राचीननैयायिकैर्वायोः प्रत्यक्षं नोपेयत इत्यात्मेतरद्रव्यवृत्तिलौकिकविषयतासम्बन्धेन प्रत्यक्षं प्रति समवायसम्बन्धे. नोद्भूतरूपं कारणमित्येवं कार्यकारणभावस्तन्मते, अस्मन्मते चात्मा शरीरमेव तत्र चोद्भूतरूपं समवायसम्बन्धेन वर्तत इति आत्मेतरत्वमनिवेश्यैव द्रव्यवृत्तिलौकिकविषयतासम्बन्धेन प्रत्यक्ष प्रति समवायसम्बन्धेनोद्भूतरूपं कारणमित्येव कार्यकारणभाव इत्यपि लाघवमित्याहुर्नव्यनास्तिकाः, तत्रोच्यते
मृतदेहे च चैतन्यमुपलभ्येत सर्वदा ।
देहधर्मादिभावेन, तन्न धर्मादि नान्यथा ॥६५॥ मृतदेहे चेति प्राणवियुक्तशरीरे चेत्यर्थः । सर्वथा जीवच्छरीरकाले येन येन प्रकारेण चैतन्यमुपलभ्यते सर्वेणापि तेन प्रकारेण । जीवच्छरीरकाले केन केन प्रकारेण चैतन्यमुपलभ्यते ? इत्यपेक्षायामाह-देहधर्मादिभावेनेति-अत्रादिपदाद् देहकार्योपग्रहः, तथा च देहधर्मत्व देहकार्यत्वाभ्यामित्यर्थः, तथा च जीवच्छरीरकाले देहधर्मस्य देहत्वादेर्दैहकार्यस्यदेहरूपादेदेहधर्मत्वदेहकार्यत्वाभ्यामुपलम्भवन्मृतदेहेऽपि देहत्व-देहरूपादेर्देहधर्मत्व-देहकार्यत्वाभ्यामुपलम्भो भवति यथा तथा जीवच्छरीरकाले देहत्व देहकार्यत्वाभ्यां देहधर्म-देहकार्यस्य चैतन्यस्योपलम्भवत् मृतदेहेऽपि देहधर्मत्व-देहकार्यत्वाभ्यां चैतन्यस्योपलम्भः स्यादित्यर्थः । "तन्न धर्मादि नान्यथा" इत्येवं मुद्रितं चतुर्थचरणमशुद्धं, किन्तु "तत्तद्धर्मादि नान्यथा" इति पाठो युक्तः, यदा मृतदेहेऽपि चैतन्य