________________
स्तबकः] स्थाद्वादवाटिकाटीकासङ्कलितः
१०१ भवस्यापि निरुक्तसम्बन्धेन युवाद्यवस्थशरीरे सत्त्वेन स्मरणसम्भवात् , चैत्र-मैत्रशरीरसन्तानयोरन्योऽन्यं भिन्नत्वेन चैत्रशरीरगतानुभवजनितसंस्कारस्य मैत्रशरीरे संक्रमणाभावेन चैत्रानुभूतस्य मैत्रेणास्मरणस्याप्युपपत्तेः, दृश्यते च कारणगुणक्रमेण कार्ये गुणसंक्रमः, कथमन्यथा पूर्वघटनाशानन्तरोपजातखण्डघटे कारणगुणक्रमेण तद्गुणसंक्रमः, एवं च पूर्वशरीरनाशोत्तरोपजातोत्तरशरीरे पूर्वशरीरगुणसंक्रम उक्तदृष्टान्तबलादुपेयत इति; न च कारणगुणक्रमेण ज्ञानादिगुणसंक्रमस्तदा स्याद् यद्यवयविज्ञानादिकं प्रत्यवयवज्ञानादिकं कारणं भवेत् , तथा हेतुताकल्पने च गौरवं सुव्यक्तमेवेति वाच्यम् , फलमुखगौरवस्यादोषत्वात् , अथवाऽणूनां विजातीयसंयोगेनैवावयविकार्यत्वेनाभिमतस्य कार्यस्योपपत्तेरवयव्येव नास्तीति नोक्तकार्यकारणभावकल्पनागौरवमपि, एवं च शरीरान्तरोत्पादेऽपि शरीरत्वघटकविजातीयसंयोगविशिष्टाणुवृत्तिसंस्कारात् तादृशस्मरणोपपत्तिः, न चातिरिक्तात्माभ्युपगमपक्षे परात्मनोऽयोग्यत्वादेव न स्वात्मन इव प्रत्यक्षत्वम् , शरीरस्यात्मत्वेऽपि स्वशरीरवत् परशरीरस्यापि योग्यत्वात् स्वात्मन इव परात्मनोऽपि प्रत्यक्षत्वं स्यादिति वाच्यम् , शरीरपरात्मनः चक्षुरादिबहिरिन्द्रियजन्यप्रत्यक्षस्येष्टत्वात् , तत्तदात्ममानसे तत्तदात्मत्वेन हेतुत्वादेव परात्ममानसप्रत्यक्षापत्त्यसम्भवात् , अतिरिक्तात्मवादिनां तु आत्मनो विभुत्वेन स्वात्मना समं यथा मनसः संयोगस्तथा परात्मना सममपि, ततः परात्मनो मानसापत्तिवारणाय तत्तदात्ममानसे तत्तदात्मत्वेन हेतुत्वं ततो मानसापत्तिवारणेऽपि सामान्यतः प्रत्यक्षापत्तिवारणाय तत्तदात्मप्रत्यक्षत्वावच्छिन्नं प्रत्यपि तत्तदात्मत्वेन हेतुत्वं विनिगमनाविरहात् कल्पनीयमिति गौरवम् ; अपि च, अस्मन्मते सावयवस्य शरीरस्याऽऽत्मन इन्द्रियसंयुक्तसमवायलक्षणसन्निकर्षादेव प्रत्यक्षमुपपद्यते, अन्येषामप्यवयविद्रव्याणां तत एव प्रत्यक्षं सम्भवति, निरवयवस्य त्वणुद्रव्यस्य प्रत्यक्षमेव न भवति, गुणादी. नामपि संयुक्तसमवायादित एव प्रत्यक्षसम्भवात् संयोगस्य पृथक् प्रत्यासत्तित्वं न कल्प्यत इति लाघवम् , परमते तु निरवयवेऽतिरिक्तात्मनि संयुक्तसमवायलक्षणसन्निकर्षाभावात् तस्य मानसप्रत्यक्षं मनःसंयोगलक्षणसन्निकर्षादेवेति संयोगस्य पृथक् प्रत्यासत्तित्वं कल्पनीयमिति गौरवं स्यात् ; न च संयुक्तसमवायमात्रस्य सन्निकर्षत्वे चक्षुःसंयुक्तपरमाणुसमवायस्य द्वयणुके परमाणुरूपे च सत्त्वात् तयोरपि प्रत्यक्षं स्यादतस्तद्वारणाय चक्षुःसंयुक्तमहदुद्भूतरूपवत्समवायत्वेन चक्षुस्संयुक्तसमवायस्य, परमाणुरूपगततया रूपत्वस्य प्रत्यक्षवारणाय चक्षुस्संयुक्तमहदु