________________
१००
शास्त्रवार्तासमुच्चयः।
[प्रथमः
स्याभ्युपगमस्तस्याप्यस्तीति चातुभौतिकं शरीरं तदनुमतं भवेत् , तथा च भूतचतुष्कप्रकृतिकं शरीरं भूतचतुष्टयभिन्नमेव भवितुमर्हति, कस्यापि भूतचतुष्टयान्यसमान्तर्गतस्य भूतचतुष्टयप्रकृतिकत्वाभावादिति वाच्यम् , यावदवयवगुणैरेव गन्धादिभिरवयविनि गुण आरभ्यते, एकावयवमात्रवर्तिनो गन्धादेरवयविनि गन्धाद्यनारम्भकत्वमित्यस्योपपत्तये समवायसम्बन्धेन गन्धादिकं प्रति स्वाश्रयसमवेतत्वसम्बन्धेन गन्धाभावादिः प्रतिबन्धक इत्येवं प्रतिबध्यप्रतिबन्धकभावस्य कल्पनीयत्वेन शरीरस्य भूतचतुष्कप्रकृतिकत्वासम्भवात् , पार्थिवादिशरीरे जलादीनां निमित्तत्वेन तत्रोपष्टम्भकजलधर्मस्य स्वाश्रयसंयोगादिलक्षणपरम्परासम्बन्धेन प्रतीतित औपाधिकत्वात् , शरीरस्य पृथिवीजलोभयप्रकृतिकत्वे गन्धाभावस्य प्रतिबन्धकस्य 'स्वं-गन्धाभावस्तदाश्रयो जलं तत्समवेतत्वं शरीरे' इति स्वाश्रयसमवेतत्वसम्बन्धेन सत्त्वात् तदभावरूपकारणाभावाच्छरीरेगन्धो न भवेत्, एवं प्रत्येकं रसमावस्याप्यभाव उक्तसम्बन्धेन तत्रास्तीति तदभावरूपकारणाभावाद् रसोऽपि शरीरे न भवेत् , एवं भूतचतुष्कप्रकृतिकत्वेऽपि गन्धाभावादीनां प्रतिबन्धकानां सत्त्वाद् गन्धादिकं न स्यादिति भूतचतुष्कप्रकृतिकं शरीरमगन्ध. मरसमरूपमस्पर्श च भवेदतो न भूतचतुष्कप्रकृतिकत्वं, किन्तु पृथिव्यायकैकभूतप्रकृतिकं शरीरम् , तथा च यच्छरीरं यद्भूतप्रकृतिकं तच्छरीरं तद्भूतेऽन्तर्भवतीति न शरीरे प्रसिद्धभूतभिन्नत्वापत्तिः; न च शरीरस्य ज्ञानादिगुणवत्त्वे परशरीरगुणानां रूपस्पर्शादीनां यथा चाक्षुषस्पर्शनं तथा परसमवेतज्ञानादीनामपि चाक्षुषस्पार्शनप्रसङ्गः स्यादिति वाच्यम् , रूपादिषु जातिविशेषमभ्युपगम्य तादात्म्यसम्बन्धेन रूपान्यतजातिमत्त्वेन तजातिमतो विषयतासम्बन्धेन चाक्षुषं प्रति, तादात्म्यसम्बन्धेन स्पर्शान्यतजातिमतो विषयतासम्बन्धेन स्पार्शनं प्रति च प्रतिबन्धकत्वकल्पनान्निरुक्तजातिमतो ज्ञानादेरपि तादात्म्यसम्बन्धेन प्रतिबन्धकतया विषयतासम्बन्धेन तत्र चाक्षुष-स्पार्शनाद्युत्पत्त्यसम्भवात् , इत्येवं रसादीनामचाक्षुषस्पार्शनवनिर्वाहात् ; न च शरीरस्यावयवोपचयापचयाभ्यां प्रतिक्षणमन्यान्यभावेनानुभवितुः पूर्वशरीरस्य बालाद्यवस्थस्य विनाशाद् युवाद्यवस्थायां स्मरणं न स्यात् , चैत्रानुभूतस्य मैत्रे स्मरणाभावेनानुभव-स्मरणयोः सामानाधिकरण्यप्रत्यासत्त्या कार्यकारणभावादिति वाच्यम् , उत्तरोत्तरशरीरं प्रति पूर्वपूर्वशरीरस्य कारणत्वेन पूर्वपूर्वशरीरानुभवजन्यसंस्कारस्योत्तरोत्तरशरीरे संक्रमणसम्भवेन समवायेन स्मरणं प्रति स्वप्रयोज्यसंस्कारवत्त्वेनानुभवस्य कारणतया बालाद्यवस्थशरीरगतानु