________________
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः अयं युज्यते क? अयं-ग्रावादिविचित्रतारूपः प्रत्यक्षादिप्रमाणप्रमितोऽर्थः, कस्मिन् दर्शने युक्तिसङ्गतो भवति । इति इत्यादिजिज्ञासाक्रमेण, 'विचार्यते' इत्य. नुवर्तते तस्य परीक्ष्यते इत्यर्थः, परीक्ष्यमाणश्च उक्तवत् उक्तरीत्या । त्वन्नीतौ त्वदभ्युपगमे, भूतचतुष्टयमात्रतत्त्ववादिचार्वाकदर्शने इति यावत् , स ग्रावादिविचित्रतारूपो यथास्थितोऽर्थः, न नैव, 'युज्यते' इत्यनुवर्तते,घटते इति तदर्थः॥६४॥
अथ नव्यनास्तिकमतमुत्थाप्य तत्समाधानरूपतया पञ्चषष्टितमपद्यमवतारित श्रीमद्भिर्यशोविजयोपाध्यायैः, तदेव सोपस्कारमुपदय॑ते, तथाहि-ननु नैयायिकादिभिरतिरिक्ते आत्मद्रव्ये कल्पितेऽपि तत्र विभौ न व्याप्यवृत्तितया ज्ञानादिको गुणः समुत्पद्यते, तथा सति आत्मनो घटादिदेशेऽपि सत्त्वेन तत्रापि शरीर इव ज्ञानादिगुणोपलम्भः स्यादतोऽव्याप्यवृत्तिरेव गुणः, एवमपि घटाद्यवच्छेदेनापि ज्ञानादिकमात्मनि समुत्पद्यमानमव्याप्यवृत्ति स्यादेवेति किमिति शरीरमेवात्मनि ज्ञानादिवृत्ताववच्छेदकं न घटादिकम् , अतोऽवच्छेदकतासम्बन्धेन ज्ञानादिकं प्रति तादात्म्यसम्बन्धेन शरीरं कारणमित्येवमवच्छेदकनियमार्थ कार्यकारणभावोऽवश्यं स्वीकरणीय एव नैयायिकादिभिः, तथा ज्ञानादिकं समवायेनात्मन्येव समुत्पद्यते नान्यत्रेत्येवं समवायिदेशनियमार्थ समवायसम्बन्धेन ज्ञानादिकं प्रति तादात्म्यसम्बन्धेनात्मा कारणमिति द्वितीयः कार्यकारणभावोऽपि स्वीकरणीयः, तथा च तदपेक्षया लाघवात् समवायसम्बन्धेन ज्ञानादिकं प्रति तादात्म्यसम्बन्धेन शरीरस्यैव कारणत्वं कल्पयितुमुचितम् , शरीरे चाविभौ व्याप्यवृत्त्येव ज्ञानादिकमिति अवच्छेदकतया तत् प्रति न तादात्म्येन कस्यापि कारणत्वस्य कल्पनायाः प्रयोजनमिति तदकल्पनप्रयुक्तलाघवं नव्यनास्तिकमते स्पष्टमेव; न च शरीरस्य ज्ञानादिसमवायित्वे आत्मत्वं तद्वृत्त्येव जातिः स्यात् , न च तत् संभवति पृथिवीत्वाभाववति जलीयशरीरे आत्मत्वस्य तदभाववति घटादौ पृथिवीत्वस्य सत्तया परस्परात्यन्ताभावसामानाधिकरण्यस्य तयोश्चैकत्र पार्थिवशरीरे सामानाधिकरण्यस्य भावेन साङ्कर्यात् तस्य च जातिबाधकत्वादिति वाच्यम् , एकेनोपाधिना सङ्कीर्णोऽपरो यथोपाधिर्भवति, यथा च जातिरप्युपाधिसङ्कीर्णा भवतीति उपाधिसायं नोपाधित्वस्य जातित्वस्य बाधकं, तथा जातिसङ्कीर्णाऽप्यनुगतप्रतीतिसाक्षिका जातिः स्यादेवेति जातिसार्यस्य जातित्वाबाधकत्वात् ; न च शरीरं पाञ्चभौतिकमिति प्रवादः समस्ति, तत्र आकाशात्मकभूतस्य चार्वाकानभ्युपगतत्वेऽपि भूतचतुष्टय