________________
शास्त्रवार्तासमुच्चयः।
[प्रथमः "न सा तन्मात्रजा न तु” इति मूलपाठमवलम्ब्योपाध्यायसम्मतम् , श्रीहरिभद्रसूरिभिस्तु 'न सा तन्मात्रजा ननु" इति मूलपाठं परिगृह्य “किन्तु न सा ग्रावा. दीनां विचित्रता तन्मात्रप्रभवा ननु" इति व्याख्यातम् , अत्र 'प्रतिक्षिप्यते' इति शेषो न करणीय इति ॥ ६२ ॥ कुतो ग्रावादीनां विचित्रता भूतमात्रप्रभवा नेत्यपेक्षायामाह
अदृष्टा-ऽऽकाश-कालादिसामग्रीतः समुद्भवात् ।
तथैव लोकसंवित्तेरन्यथा तदभावतः ॥ ६३ ॥ अदृष्टेति । अदृष्टाकाशकालादीत्यत्रादिपदानियत्यादेरुपग्रहः, अदृष्टाssकाश-कालनियत्यादीनां या सामग्री-सर्वेषां समवधानलक्षणसम्पूर्णता, ततः, समुद्भवात् ग्रावादिविचित्रतोत्पादाभ्युपगमात् । ननु ग्रावादीनां विचित्रतोत्पत्तिरदृष्टाकाशकालादिसामग्रीतो न लोकेन प्रतीयत इति चेदवाह-तथैवेतिइत्थमेवेत्यर्थः । लोकसंवित्तेः व्युत्पन्नलोकप्रतीतेः, व्युत्पन्नेति विशेषणादव्युत्पबलोकस्य तथाप्रतीत्यभावेऽपि नानुपपत्तिः । अन्यथा अदृष्टा-ऽऽकोश-कालादि. सामग्रीतो ग्रावादिविचित्रतोत्पत्त्यनभ्युपगमे, तदभावतः भूतमात्रजत्वस्य सर्वत्राविशेषात् कारणान्तरस्याभावात् विचित्रताऽभावप्रसङ्गात् ॥ ६३ ॥
नन्वाबालगोपालप्रत्यक्षप्रमाणसिद्धत्वमेव लोकसिद्धत्वं न तु व्युत्पन्नलोकमात्र. सिद्धत्वं तथा, अव्युत्पन्नलोकेन च ग्रावादिवैचित्र्यस्य अदृष्टाकाशकालादिसमुद्भः वत्वं न प्रतीयत इति कथं लोकसिद्धत्वं तस्योपेयमिति चेदवाह
न चेह लौकिको मार्गः, स्थितोऽस्माभिर्विचार्यते ।
किन्त्वयं युज्यते केति त्वन्नीतौ चोक्तवन्न सः॥६४॥ न चेहेति । इह तत्त्वपरीक्षणप्रक्रमे, लौकिकः अव्युत्पन्नलोकमात्राश्रितः, स्थितो मार्गः किमयमित्थं स्थित इति संशयोपारूढोऽर्थः, मृग्यते-अन्विष्यते इति मार्गः, अन्वेषणं च संशयोपारूढस्यैव निर्णयरूपावाप्त्यर्थं भवतीति मार्ग. पदेन संशयोपारूढत्वं लभ्यते । अस्माभिः तत्त्वपरीक्षणैकपरायणैः । विचायते न च नैव विचारविषयीक्रियते, अर्थात् लोकव्यवहारानुवर्तिभिरपरीक्षकैगतानुगतिकतयाऽव्युत्पन्नलोकैर्यथा संदिह्यते तथैव न संहिह्यते, तर्हि तत्त्वपरीक्षाविदग्धैर्भवद्भिः किं विचार्यत इति पृच्छति-किन्त्विति । उत्तरयति-अयमिति ।