SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ९७ स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः : चार्वाकस्य मते एकस्य भूतसङ्घातस्य देहादिरूपत्वमपरस्य घटादिरूपत्वमित्यपि विशेषो न सम्भवति भूतातिरिक्तनिमित्ताभावादित्याह एकस्तथाऽपरो नेति, तन्मात्रत्वे तथाविधः। यतस्तदपि नो भिन्न, ततस्तुल्यं च तत् तयोः॥ ६१॥ एक इति । एकः एको भूतसङ्घातो देहादिरूपः । तथा देहादिरूपत्वेन । अपरः घटादिरूपो भूतसङ्घातः । तन्मात्रत्वे इत्यनन्तरमपिर्गम्यते, भूतसङ्घातमात्रत्वेऽपीत्यर्थः । तथाविधः देहादिरूपः। न नैव । इति एतादृशो विभागः । यतः यस्मानिमित्तात्, उच्यते इति शेषः। तदपि आपाततः प्रतीयमानमुक्तविभागनिमित्तमपि । नो भिन्नं भूतातिरिक्तं न भवति, तस्य निमित्तस्य भूतातिरिक्ततयोपगमे भूतचतुष्टयमात्रतत्त्ववादव्याकोपः स्यात्, ततः तस्मात् कारणात्। तयोः देह-घटादिरूपयोर्भूतसङ्घातयोः । तच्च भूतमात्रत्वं च । तुल्यं समम् , तेन भूतत्वं तादृशविभागनिमित्तं न, भूतातिरिक्तं तु तत्त्वान्तरप्रसङ्गभीत्या निमित्तं नाभ्युपगन्तुं शक्यं परेण, अतः शरीरस्य नात्मत्वं युक्तमित्याशय इत्येवमुपाध्याया वर्णयन्ति । “यतः यस्मात् । निमित्तं नो भिन्नं ततः भूतमात्रात् , अपि तु तदेव तदिति" इति श्रीमन्तो हरिभद्रसूरयो व्याचक्षते ॥ ६१ ॥ .. स्वमतकदाग्रहावेशात् परोक्त्यभिप्रायमज्ञात्वैव पुनः शङ्कते स्यादेतद् भूतजत्वेऽपि, ग्रावादीनां विचित्रता । लोकसिद्धेति सिद्धैव, न सा तन्मात्रजा न तु ॥ ६२ ॥ __ स्यादेतदिति-प्रश्नार्थकोऽयं शब्दः । भूतजत्वेऽपि भूतमात्रजन्यत्वेऽपि । ग्रावादीनां पाषाणादीनाम् । विचित्रता घटादिभ्यो विलक्षणवर्ण-स्पर्शसंस्थानादिरूपा विचित्रता । लोकसिद्धा लौकिकप्रत्यक्षप्रमाणप्रमितैव । इति एवं परो मन्यते । तस्यायमभिप्रायः-आबालगोपालप्रत्यक्षप्रमाणसिद्धस्य पाषाणादीनां वैचित्र्यस्य भूतमानजत्वेऽपि नापलापः शक्यः कर्तुम् , तथा भूतसङ्घातमात्रत्वेऽपि घटादिक्षणभूतसङ्घाततः शरीरलक्षणभूतसङ्घातस्य वैचित्र्यमप्युपपत्स्यत इति । उक्तप्रश्नप्रतिविधानमाह-सिद्धैवेति । सा ग्रावादीनां विचित्रता, सिद्धैव लौकिकप्रत्यक्षप्रमाणप्रमितैव, अत एव न सा प्रतिक्षिप्यते इति शेषः, 'तु पुनः, तन्मात्रजा न ग्रावादीनां विचित्रता भूतमात्रजा न' इत्येवं व्याख्यानं ७ शास्त्र०स०
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy