________________
९६
शास्त्रवार्तासमुच्चयः।
[प्रथमः वापास्याभिव्यक्तिलक्षणविशेषसद्भावादविशेषापत्तिलक्षणदोषोऽपि न, भूतमात्रवादिनस्तव तु कर्तुरभावात् तद्वयापारादिकारणसमवधानासम्भवाद् भूतसङ्घाते चैतन्याभिव्यक्तिविशेषस्योत्पत्तिर्न घटत इति ॥ ५८ ॥ कुतो न परमन्तव्यं युक्तमित्यपेक्षायामाह
कञभावात् तथा देश-कालभेदाद्ययोगतः ।
न चासिद्धमदो भूतमात्रत्वे तदसम्भवात् ॥ ५९ ॥ कत्रभावादिति । कर्बभावात् खाद्यकादिव्यतिरिक्तो यथा खाद्यकादीनां कर्ता समस्ति हविगुंडादिसंमीलनप्रयोजनकव्यापारपरायणः, तथा शरीरस्य तथा संघाताभिव्यक्तिव्यापारपरायणस्यातिरिक्तस्य कर्तुरभावात् । तथा कर्तृवत् । देशकालभेदाद्ययोगतः, आदिनाऽदृष्टादेर्ग्रहः, देशभेद-कालभेदा ऽदृष्टभेदादीनामभावात् । न चासिद्धमदः देशभेद-कालभेदा-ऽदृष्टभेदाद्ययोगादि नैवा. सिद्धम् । भूतमात्रत्वे भूतमात्रतत्त्ववादिनस्तव मते विश्वस्य भूतैकस्वभावत्वे, तदसंभवात् कर्ताद्यसम्भवात् ॥ ५९ ॥ उक्तमेवार्थ स्पष्टयतितथा च भूतमात्रत्वे, न तत्संघातभेदयोः ।
भेदकाभावतो भेदो, युक्तः सम्यग् विचिन्त्यताम् ॥६०॥ तथा चेति । तथा च-कर्तृ देश काला-ऽदृष्टभेदादीनामभावे च, विश्वस्य भूतैकस्वरूपत्वलक्षणं भूतमात्रत्वमप्यनन्तरमभिहितमिति "तथा च” इत्यने. नैव "भूतमात्रत्वे च" इत्यस्याप्यवगतिसम्भवेऽपि यत् “भूतमात्रत्वे" इति पृथग्वचनं तद् विश्वस्य भूतैकस्वरूपत्वाभ्युपगमत एव चार्वाकस्य परोक्तदोषप्रमोषार्थी सर्वाऽपि कल्पनाऽचतुरस्नेत्यानेडितं भवति । भूतमात्रत्वे विश्वस्य भूतैकस्वरूपत्वे । तत्सङ्घातभेदयोः भूतसङ्घातभेदयोः शरीर घटादिविशेषयोः । भेदकाभावतः भूतव्यतिरिक्तस्य कस्यचिद् भेदकस्याभावतः, उपदर्शितदिशा भेदकाभावतो वा । भेदः चैतन्याचैतन्यलक्षणवैलक्षण्यम् , न नैव, युक्तः युक्तिसङ्गतः, इतीति दृश्यम् , तदर्थः-एवम् । सम्यग् उक्तरीत्या परमार्थविचारेण । विचिन्त्यतां परामृश्यताम् ॥ ६० ॥