SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः मूढता तव, यदुत-कार्यभेदो नास्त्येव दृष्टान्ते तथापि कार्यभेदं ब्रवीषीति मूढतामाहात्म्यं कामं त्वयि प्रगल्भते इति । भिन्नस्वभावता हविरादीनां प्रत्येकावस्थातः खाद्यकभावावस्थायां स्वभावलक्षणता, व्यक्तिमात्रत एव अभिव्यक्तिभेदमात्राधीनैव, मानपदप्रयोजनोपदर्शकं-रसत्वाद्युत्तरार्द्धम् , तस्य हविरादीनामसङ्घातावस्थातः संघातावस्थायां रस-वीर्यविपाकादिविलक्षणकार्यहेतुत्वं न विद्यते इत्यर्थः । अत्राभिप्रायमित्थमावेदयन्त्युपाध्यायाः-कारणोत्कर्षात् कायोत्कर्षेऽपि कार्यवैजात्यस्य कारणवैजात्याधीनत्वात् खाद्यकदृष्टान्तेनासंहतभूतकार्यात् संहतभूतकार्योत्कर्षेऽपि चैतन्यलक्षणं विलक्षणं कार्य विलक्षणमात्मानमेव हेतुमाक्षिपतीति ॥ ५७ ॥ कदाग्रहग्रहिलः पर आशङ्कते तदात्मकत्वमात्रत्वे, संस्थानादिविलक्षणा । यथेयमस्ति भूतानां, तथा सापि कथं न चेत् ? ॥५८॥ तदात्मकत्वमात्रत्वे इति । खाद्यकानां हवि गुंड-कणिक्कादिद्रव्यसङ्घातात्मकत्वमात्रत्वे सतीत्यर्थः, मात्रपदेन हवि-गुंड-कणिक्कादिद्रव्यससातप्रभवत्वप्रयुक्ततदतिरिक्तत्वव्यवच्छेदः । संस्थानादीत्यादिपदात् परिमाणादिपरिग्रहः, तथा च संस्थानादिविलक्षणा संस्थानपरिमाणादिना विभिन्नसंवित्तिसंवेद्या, यथेयमस्ति खाद्यकानां हविरादिपृथगवस्थानावस्थातो भिन्नस्वभावता यथा विद्यते, तथा भूतानां भूतकार्याणां देह-घटादीनाम् , साऽपि चैतन्योपादानत्व-चैतन्यानुपादानत्वपर्यवसितचेतनत्वाचेतनत्वरूपा विभिन्न स्वभावताऽपि, कथं न कस्मान्न स्यात् , अपि तु स्यादेव । अत्रोत्तरम्-इति चेत् ? एवं त्वं मन्यसे, न च तन्मन्तव्यं युक्तम् , 'खाद्यकानां विभिन्नस्वभावता व्यक्तिमात्रतः' इति यदुक्तं तत्र 'व्यक्तिमात्रतः' इत्यस्य स्वरूपभेदाप्रयोज्यत्वमर्थः, हवि-गुंडादिप्रत्येकद्रव्यस्वरूपभिन्नखाद्यकस्वरूपप्रयोज्या न खाद्यकानां भिन्नस्वभावता, स्वरूपभेदस्यैवाभावात् , किन्तु खाद्यकस्वभावाक्रान्तहवि-गुंड-कणिक्कादिद्रव्याभिव्यक्तिस्तत्सङ्घटनकर्तृव्यापारादिकारणविशेषसमुत्पाद्यैव, तथा च यदा कर्तृव्यापारादिकारणविशेषसमवधानं तदा हविरादीनां खाद्यकस्वभावाभिव्यक्तिरित्येवं कालनियमसम्भवान्न तस्या आकस्मिकत्वम् , असंहत्यवस्थापन्नहविरादितः खाद्यकस्वभा
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy