________________
शास्त्रवार्तासमुच्चयः ।
[प्रथमः संयोगमात्रम् , तथा सति आत्मनो नैयायिकादिमते विभुत्वेन तत्संयोगस्य भूतमात्रे सत्त्वेन सर्वस्य भूतस्यात्मसहकारित्वमापद्येत, न चाशेषाणि भूतानि आत्मसहकारीणि, किन्त्वदृष्टद्वारा, यदात्मनो दृष्टादाकृष्टानि भूतानि यच्छरीररूपेण परिणमन्ते तच्छरीरं तदात्मनो भोगे जननीये सहकारि, तत एव भोग प्रति नियमोऽपि, एवं च शरीरं भोगसमानाधिकरणगुणसाध्यं भोगसाधनत्वात् , स्त्रगादिवत् , यददृष्टजन्यं स्त्रगादि तस्य साक्षात् परम्परया वा भोगं जनयति, तत एव कार्यमात्रस्य कस्यचित् पुरुषस्य साक्षात् परम्परया भोगजनकत्वाद् भोगसमानाधिकरणादृष्टगुणजन्यत्वमिति नैयायिकादयोऽभिमन्यन्त इत्यत्र प्रकृतपद्यतात्पर्यम् ॥ ५५॥ कार्यभेदादेव भूतानां स्वभावभेदो भविष्यतीति स्वाकूतं पर आशङ्कते
हविगुंड-कणिक्कादिद्रव्यसंघातजान्यपि ।
यथा भिन्नखभावानि, खाद्यकानि तथेति चेत् १ ॥५६॥ हविरिति । हविः-घृतम् , कणिक्कादीत्यादिपदाच्चातुर्जातकादिद्रव्यविशेषग्रहणम् , हवि-गुंड-कणिक्कादीनां द्रव्याणां संघाताजातान्यपि, खाद्यकानि अशोकवर्तिमरिचमार्यादीनि, यथा भिन्नखभावानि प्रत्येकं हविरादिद्रव्यतो रसवीर्यविपाकादिलक्षणकार्यभेदात् भिन्नस्वभावानि, तथा भूतसंघातजान्यपि शरीराणि चैतन्यलक्षणकार्यभेदात् चैतन्याजनकेभ्योऽचेतनस्वभावेभ्यो घटादिभ्यश्चैतन्यास्मकस्वभावत्वेन भिन्नस्वभावानि । अत्र शरीर-घटादीनां भूतसङ्घातत्वेनाविशिष्टानां चैतन्याचैतन्यलक्षणकार्यभेदः स्वभावभेदादेव सिद्ध्यति, स्वभावाभेदे कार्याभेद एव स्यात् , स्वभावभेदश्च कार्यभेदात् सिद्ध्यति, कार्याभेदे स्वभावाभेदस्यैव प्रसक्तेरित्येवमन्योऽन्याश्रयदोषं स्फुटत्वादुपेक्ष्य कार्यभेदासिद्धिं दोषान्तरमुपदर्शयन् प्रतिक्षिपति-इति चेदिति-एतदनन्तरं 'नैतदेवम्' इति शेषः ॥ ५६ ॥ निषेधहेतुमाह
व्यक्तिमात्रत एवैषां, ननु भिन्नस्वभावता ।
रस-वीर्यविपाकादिकार्यभेदो न विद्यते ॥ ५७ ॥ व्यक्तिमात्रत इति । अत्र निषेधहेत्ववगतये यत इति दृश्यम् , यस्मात् कारणादिति तदर्थः । एषां खाद्यकानाम् । ननु इति परं प्रति आक्षेपे, कीदृशी